प्रथमशतकस्य कानिचन ख्रीष्टानुयायिनः अशिक्षितानि अपि भाषाणि वक्तुं शक्नुवन्ति स्म, इदं "जिह्वाभाषणम्" इति कथ्यते। इदं जिह्वाभाषणं स्वर्गस्य भाषा इव मन्यते, अस्माकं जीवने पवित्रात्मनः कार्यस्य चिह्नम् अस्ति। इदं मुद्रा इव, यया पवित्रात्मनः प्रकटीकरणं व्यक्तौ दृश्यते। अस्य चमत्कारस्य प्रथमघटना येरुसलेमे पेन्तेकुस्ट्-पर्वणि अभवत्, यथा "क्रियासु" वर्णितम्।
यः जिह्वया भाषते स न मनुष्यं प्रति, अपि तु ईश्वरं प्रति भाषते, अनेन चात्मानं निर्माति। जिह्वाभाषणस्य शक्तिः विशेषाधिकारः अस्ति, यतः इदं भावनातः न उद्भवति, अपि तु आत्मा ईश्वरात्मना सह संवादं करोति। एतानि प्रकटीकरणानि अविश्वासिनां कृते चिह्नानि सन्ति, न तु विश्वासिनां कृते।
चमत्कारं, भविष्यवाण्यं वा ज्ञानवचनं वा कृत्रिमं कर्तुं शक्यते, परन्तु स्वाभाविकरूपेणाज्ञातासु भाषासु भाषणं नानुकर्तुं शक्यते, यत् स्पष्टं न भवेत्। यदि त्वं पवित्रात्मना नैव संस्कारितः, तर्हि तं प्रार्थयस्व यत् स त्वयि आप्लावयेत्, यतः इदं वरदानं केवलं विशिष्टसमूहस्य नास्ति, अपि तु ये येशोः नाम्नि विश्वसन्ति तेषां सर्वेषाम्।
(क्रियाः २:४) "ते सर्वे पवित्रात्मना परिपूर्णाः अभूवन्, यथा च पवित्रात्मा तान् भाषितुं ददौ तथा ते अन्यभाषाभिः भाषितुम् आरभन्त।"
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।
मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।
अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।
अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां।
अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां।
ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।
ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;
प्रेम्नो लोपः कदापि न भविष्यति, ईश्वरीयादेशकथनं लोप्स्यते परभाषाभाषणं निवर्त्तिष्यते ज्ञानमपि लोपं यास्यति।
तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।
तथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।
युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
सर्व्वे किम् अनामयकरणशक्तियुक्ताः? सर्व्वे किं परभाषावादिनः? सर्व्वे वा किं परभाषार्थप्रकाशकाः?
यद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति।
किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त
समितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति?
हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।
यदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां।
किन्त्वर्थाभिधायकः कोऽपि यदि न विद्यते तर्हि स समितौ वाचंयमः स्थित्वेश्वरायात्मने च कथां कथयतु।
तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।