बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

भाषाणां व्याख्यानदानम्भाषाविधानां दानम्आत्मानां विवेकस्य दानम्भविष्यद्वाणीयाः दानम्चिकित्सायाः उपहाराःविज्ञानस्य उपहारः शब्दःप्रज्ञावचनस्य दानम्जीवने प्रयोजनं अन्वेष्टुम्मन्दिररूपेण शरीरस्य पालनं कुरुतआज्ञानां महत्त्वम्निश्छलः पश्चात्तापःभावनात्मक वेदना निवारणधैर्यस्य महत्त्वम्आध्यात्मिक अपरिपक्वताव्यक्तिगत परिवर्तनअन्धकारःसत्यं वञ्चनं च विवेच्यताम्ईश्वरेण सह मेलनं कुरुतक्रसस्य अर्थःअस्माकं अस्तित्वस्य प्रयोजनम्श्रद्धायाः दानम्पापविषयेनरकस्य विषयेप्रलोभनस्य विषयेव्याप्तःपश्चात्तापःआत्मानः विषयेस्वेच्छाबाइबिलस्य प्रेरणाअमरात्मनः विषयेआध्यात्मिक वरदानभाषासु वदन्पातालःआध्यात्मिक परिपक्वताव्यक्तिगत परिवर्तनश्रमस्वप्नानिसंशयःहस्तनिक्षेपणम्ख्रीष्टेन सह साझेदारीराक्षसाःआध्यात्मिक उष्णताउपदेशःउत्पीडनभिन्नः भवतु

उपवर्ग

65 भविष्यद्वाणीयाः दानस्य विषये बाइबिलस्य श्लोकाः


1 कुरिन्थियों 12:10

अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।

1 कुरिन्थियों 14:1

यूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।

1 कुरिन्थियों 14:3

किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।

1 कुरिन्थियों 14:4

परभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति।

1 कुरिन्थियों 14:5

युष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।

1 कुरिन्थियों 14:22

अतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।

1 कुरिन्थियों 14:24-25

किन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते,

ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।

1 कुरिन्थियों 14:29

अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु।

1 कुरिन्थियों 14:31

सर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ।

1 कुरिन्थियों 14:32

ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति।

1 कुरिन्थियों 14:39

अतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां।

इफिसियों 4:11

स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।

रोमियों 12:6

अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;

प्रेरिता 2:17

ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।

प्रेरिता 2:18

वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः।

प्रेरिता 11:27-28

ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति

आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।

प्रेरिता 13:1

अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,

प्रेरिता 19:6

ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।

1 थिस्सलुनीकियों 5:20

ईश्वरीयादेशं नावजानीत।

2 पतरस 1:21

यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।

प्रकाशितवाक्य 1:3

एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज्ञाग्राहिणश्च धन्या यतः स कालः सन्निकटः।

प्रकाशितवाक्य 19:10

अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।

मत्ती 7:15

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।

मत्ती 24:24

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।

लूका 1:70

सेवामहै तमेवैकम् एतत्कारणमेव च। स्वकीयं सुपवित्रञ्च संस्मृत्य नियमं सदा।

प्रेरिता 3:18

किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।

मत्ती 10:41

यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।

प्रकाशितवाक्य 22:18

यः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति।

प्रकाशितवाक्य 10:11

ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।

प्रेरिता 13:2

ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।

1 कुरिन्थियों 12:7

एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।

उपवर्ग

भाषाणां व्याख्यानदानम्भाषाविधानां दानम्आत्मानां विवेकस्य दानम्भविष्यद्वाणीयाः दानम्चिकित्सायाः उपहाराःविज्ञानस्य उपहारः शब्दःप्रज्ञावचनस्य दानम्जीवने प्रयोजनं अन्वेष्टुम्मन्दिररूपेण शरीरस्य पालनं कुरुतआज्ञानां महत्त्वम्निश्छलः पश्चात्तापःभावनात्मक वेदना निवारणधैर्यस्य महत्त्वम्आध्यात्मिक अपरिपक्वताव्यक्तिगत परिवर्तनअन्धकारःसत्यं वञ्चनं च विवेच्यताम्ईश्वरेण सह मेलनं कुरुतक्रसस्य अर्थःअस्माकं अस्तित्वस्य प्रयोजनम्श्रद्धायाः दानम्पापविषयेनरकस्य विषयेप्रलोभनस्य विषयेव्याप्तःपश्चात्तापःआत्मानः विषयेस्वेच्छाबाइबिलस्य प्रेरणाअमरात्मनः विषयेआध्यात्मिक वरदानभाषासु वदन्पातालःआध्यात्मिक परिपक्वताव्यक्तिगत परिवर्तनश्रमस्वप्नानिसंशयःहस्तनिक्षेपणम्ख्रीष्टेन सह साझेदारीराक्षसाःआध्यात्मिक उष्णताउपदेशःउत्पीडनभिन्नः भवतु