युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।
फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।
यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं
तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन्
आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ?
ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।
यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि।
वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;
किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज्ञानं प्रभाषामहे।
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
किन्तु यिहूदीयानां भिन्नदेशीयानाञ्च मध्ये ये आहूतास्तेषु स ख्रीष्ट ईश्वरीयशक्तिरिवेश्वरीयज्ञानमिव च प्रकाशते।
यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।
युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।
अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।
यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्।
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।
तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।
तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।
स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा
अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,
वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।
तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।