भगवतः प्रेम अनुभूय स्वर्गस्थं अनन्तायुषः निश्चयं प्राप्य कथं केचन नास्तिकतां स्वीकुर्युः इति अवगन्तुं कठिनं भवति। परन्तु पापस्य मनसि हृदये च प्रभावं ज्ञात्वा नास्तिकानां भावनाः किञ्चित् अवगन्तुं शक्नुमः। अस्माकं कर्तव्यं तेषां कृते प्रार्थना एव यत् ईश्वरदर्शनात् तान् यः आवरणं वारयति सः दूरीभूत्वा भगवान् तेषां जीवने प्रभावशाली रूपेण आविर्भूय तेषां ज्ञानचक्षुषी उन्मीलयतु। एतान् जनान् उपगच्छन्तः केवलं वचनेषु न आश्रितव्यम्, अपि तु सुसमाचारस्य परिवर्तनशीलं सामर्थ्यं दर्शयितव्यं यत् ते ख्रीष्टस्य सत्यतायां विश्वसन्ति। नास्ति अत्र वादविवादयोः प्रयोजनम्, अपि तु पवित्रात्मनः प्रत्यक्षप्रमाणैः समर्थितां परमसत्यतां स्पष्टतया तेभ्यो बोधयितव्या। (यूह. १६:८)
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।
यत ईश्वरमधि यद्यद् ज्ञेयं तद् ईश्वरः स्वयं तान् प्रति प्रकाशितवान् तस्मात् तेषाम् अगोचरं नहि।
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।
यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं
मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य
अपरञ्च यथार्थं वच्मि, एलियस्य जीवनकाले यदा सार्द्धत्रितयवर्षाणि यावत् जलदप्रतिबन्धात् सर्व्वस्मिन् देशे महादुर्भिक्षम् अजनिष्ट तदानीम् इस्रायेलो देशस्य मध्ये बह्व्यो विधवा आसन्,
किन्तु सीदोन्प्रदेशीयसारिफत्पुरनिवासिनीम् एकां विधवां विना कस्याश्चिदपि समीपे एलियः प्रेरितो नाभूत्।
अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
एकः फिरूश्यपरः करसञ्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
किन्तु स करसञ्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं?
यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।
तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।
ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
इह काले ततोऽधिकं परकाले ऽनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति।
अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।
अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
हे दायूदः सन्तान यीशो मां दयस्व।
ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभोऽहं द्रष्टुं लभै।
तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।
तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
अपरं सत्यविधवाः सम्मन्यस्व।
कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।
अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति।
अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।
तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।
यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।
तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।
तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।
ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;
ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,
वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
विधवानां सर्व्वस्वं ग्रसित्वा छलेन दीर्घकालं प्रार्थयन्ते च तेषु सावधाना भवत, तेषामुग्रदण्डो भविष्यति।
केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्,
यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं?
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां
ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते।
यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते।
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।
यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।
विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये।
यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।
इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।
यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।
यतः पूर्व्वकाले याः पवित्रस्त्रिय ईश्वरे प्रत्याशामकुर्व्वन् ता अपि तादृशीमेव भूषां धारयन्त्यो निजस्वामिनां वश्या अभवन्।
तथैव सारा इब्राहीमो वश्या सती तं पतिमाख्यातवती यूयञ्च यदि सदाचारिण्यो भवथ व्याकुलतया च भीता न भवथ तर्हि तस्याः कन्या आध्वे।