प्रिय मित्र, यदा भवतः पितुः समीपं गच्छति, तदा पुत्रस्य समीपमपि गच्छति, यतः तौ एकरूपम् एव स्तः। पूर्वं, अस्माकं दोषाणां पापानां च कारणात्, वयं पितुः दूरे आस्म। अस्माकं स्थितिः एकं आवरणं निर्माति स्म यत् अस्मान् पितुः पृथक् करोति स्म।
किन्तु तस्य प्रेम अपारं, तस्य करुणा च विशाला। अतः सः भवतः, तस्य प्रियतमस्य सृष्टेः, वियोगं न सहते स्म। एतस्यैव निष्काम-प्रेम्णः कारणात् सः स्वम् एकजातं पुत्रं भवतः कृते प्राणत्यागाय प्रेषितवान्; यस्मिन् पुत्रे न कापि त्रुटिः न दुष्टता, यस्मिन् पापं न वसति, यः पूर्णतया परिपूर्णः।
एतत् कृतवान् येन भवतः पितुः सम्मुखे उपस्थितेः, तस्य नाम पूजनाय च कोऽपि बाधा न भवेत्। पितुः समीपं गन्तुं, येशुम् समीपं गन्तव्यम्, तं च एकमात्रं पर्याप्तं च त्राणकर्ताम् इति स्वीकर्तव्यम्। एवं तस्य रक्तं भवतः पापात् शुद्धं करिष्यति, भवान् च ईश्वरस्य सन्ततिः भविष्यति।
इदानीं तस्य सान्निध्यं गन्तुं न कोऽपि बहाना। आवरणं विदीर्णम्, अधुना भवतः पूर्णस्वातन्त्र्यमस्ति सुखिनः भवितुं, स्वस्य स्रष्टारं च प्रेम कर्तुम्। दैनन्दिनजीवने येशुं मा विस्मरतु, भवतः कृते तस्य त्यागस्य महत्त्वं ज्ञात्वा, सर्वात्मना तं अन्विष्यतु। तस्य कृपा विना मा जीवतु, तस्य हस्तात् मा दूरीभवेतु, मा च तस्मात् सुन्दरात् अनुग्रहात् विमुखः भवेतु यः भवतः उद्धाराय भवतः जीवने प्रकटितः।
सर्वोपरि, सर्वात्मना ईश्वरं प्रेम कुरु, सदा तस्य पार्श्वे च गच्छ। यतः एक एव ईश्वरः, ईश्वरस्य मानवानां च मध्ये एक एव मध्यस्थः, मानवः येशुः ख्रीष्टः। (१ तीमुथियुस २:५)
अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।
पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।
अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।
पश्चाद् यीशुरवदद् युष्मानहं यथार्थतरं वदामि पुत्रः पितरं यद्यत् कर्म्म कुर्व्वन्तं पश्यति तदतिरिक्तं स्वेच्छातः किमपि कर्म्म कर्त्तुं न शक्नोति। पिता यत् करोति पुत्रोपि तदेव करोति।
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।
अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।
वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।
पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।
पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
त्वममरेश्वरस्याभिषिक्तपुत्रः।
परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।
अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
मत्प्रेरकेण पित्रा नाकृष्टः कोपि जनो ममान्तिकम् आयातुं न शक्नोति किन्त्वागतं जनं चरमेऽह्नि प्रोत्थापयिष्यामि।
स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।
पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।
अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः
कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका
अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः।
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।
ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।
तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।
यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति।
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,
किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो
ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।