बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

बालकबालिकानां कृते श्लोकाः

बालकाः ईश्वरस्य वरदानम्। गृहे लघुतमानां बालकानाम् ईश्वरवचनेषु शिक्षणं दातव्यम्। आल्पायुषः एव तेषु ईश्वरभयं स्थापयितव्यम्। येन जीवनस्य संकटेषु तेषां स्मृतिपथे ताः शिक्षाः आगच्छेयुः, ईश्वरञ्च ते शरणं व्रजेयुः। अस्माकं प्रभुः यीशुः बालकान् स्निह्यति, वयस्केभ्यश्च बालकानां सदृशानां भवितुं मार्गदर्शनं ददाति स्वर्गराज्यप्राप्तये। यथा प्रभुणा उक्तम्, "बालकान् मामुपेतुं मा वारयत, यतः एतादृशानामेव स्वर्गराज्यम्।" (मत्ती १९:१४) बालकानां पवित्रता, नम्रता, क्षमाशीलता च ईश्वरस्य प्रियाः गुणाः। एतान् गुणान् ईश्वरवचनेन दिनरात्रौ पोषयितव्याः। यथा उक्तम्, "बालकं सम्यक् मार्गे स्थापय; वृद्धः सन् स तस्मात् न च्यवति।" (नीतिसूक्तानि २२:६)


गलातियों 5:19-20

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

याकूब 4:4

हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

1 कुरिन्थियों 15:33

इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।

मत्ती 5:43-44

निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।

किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।

इफिसियों 2:15

यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं

रोमियों 12:18

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

इफिसियों 4:31-32

अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।

यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

मत्ती 5:9

मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

1 योहन 4:7

हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।

1 पतरस 3:8

विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।

लूका 6:27-28

हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।

ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

रोमियों 5:10

फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।

कुलुस्सियों 1:21-22

पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।

यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।

1 योहन 4:20

ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

इफिसियों 2:14-16

यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च।

यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं

स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।

रोमियों 8:7

यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

1 पतरस 3:9

अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।

रोमियों 12:19-20

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।

1 कुरिन्थियों 13:4-5

प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।

अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,

1 योहन 3:15

यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ।

रोमियों 13:10

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

लूका 23:34

तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः।

इफिसियों 6:12

यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।

इब्रानियों 12:14-15

अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।

यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,

2 कुरिन्थियों 13:11

हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।

गलातियों 6:1

हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।

2 तीमुथियु 2:23-24

अपरं त्वम् अनर्थकान् अज्ञानांश्च प्रश्नान् वाग्युद्धोत्पादकान् ज्ञात्वा दूरीकुरु।

यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।

1 पतरस 2:1

सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

तीतुस 3:3-5

यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।

किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते

वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः

फिलिप्पियों 2:3-4

विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।

यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।

केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।

मत्ती 18:21-22

तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?

किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।

रोमियों 15:5-6

सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;

यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।

1 योहन 2:9

अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।

रोमियों 16:17-18

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।

योहन 15:18

जगतो लोकै र्युष्मासु ऋतीयितेषु ते पूर्व्वं मामेवार्त्तीयन्त इति यूयं जानीथ।

2 कुरिन्थियों 5:18-19

सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।

यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।

1 पतरस 4:8

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

1 कुरिन्थियों 1:10

हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।

इफिसियों 4:2-3

सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।

किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः,

यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।

तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,

यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन

धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।

अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः।

अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।

अपरं शयताने स्थानं मा दत्त।

चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।

मत्ती 6:14-15

यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;

किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।

ईश्वरस्य प्रार्थना

हे भगवन, सनातन परमेश्वर! त्वां नमामि। त्वं न्यायी, पवित्र, सर्वोच्च स्तुति-आराधनायाः योग्यः असि। भगवन् यीशुना माध्यमत्वेन त्वत्सकाशम् आगच्छामि। त्वं तेषु स्वस्य उद्देश्यं पूर्णं करिष्यसि, ते तव हृदयानुसारिणः नरनार्यः भविष्यन्ति, तव आज्ञाकारिणः, स्वपितृमातृणाम् जीवनं पूजयिष्यन्ति च इति प्रार्थयामि। हे प्रभो, स्वबालकानां तव मार्गेषु शिक्षणार्थं प्रतिबद्धानां पितृमातृणाम् पीढीम् उद्धर। तेषां आगमनं गमनं च रक्ष, शत्रोः सर्वेभ्यः कुचक्रैः पाशैः च रक्षा। हे प्रभो, तेषां हृदयानि संस्कारय, प्रतिदिनं तेषां आकृतिं, कृपां, ज्ञानं च वर्धय, येन ते युवावस्थां किशोरावस्थां च तव सेवार्थं समर्पयितुं शक्नुयुः। तव वचने उक्तम् अस्ति, यीशुः अवदत् - "बालकाः मत्समीपम् आगन्तुं त्यजत, मा वारयत, यतः स्वर्गराज्यं तेषाम् एव अस्ति ये एतेषाम् इव सन्ति"। हे पवित्रात्मन्, तेषां भयं जेतुं, परीक्षाः उत्तीर्णाः भवितुं, मया पूर्वनियोजितेषु कार्येषु प्रतिदिनं प्रगतिं कर्तुं च साहसं प्रदानं कुरु। अस्य संसारस्य प्रवाहैः तेषाम् अपवित्रता मा भवतु, अपि तु तव सेवार्थं समर्पितं जीवनं यापयितुं तेषां हृदयानि प्रेरय। येशोः नाम्नि। आमीन्।