बाल्यादेव मम जीवनं महत्कार्याय नियतम् आसीत्, गर्भादेव ईश्वरीययोजनायाः अंशः अस्मि इति ज्ञात्वा। मम मातापितरौ प्रेम्णा धैर्येण च मम भविष्यवाण्याः विषये शिक्षितवन्तौ, येन बाल्यावस्थायामेव परमपित्रः इच्छां पूरयितुं शक्तः अभवम्। गृहे लघूनां जीवने मातापितॄणां भूमिका अतीव महत्त्वपूर्णा। ईश्वरमार्गे तेषां मार्गदर्शनं कर्तव्यम्, येन भविष्ये दृढं ते पादं स्थापयितुं शक्नुयुः।
ईश्वरः असीमः, बालकानाम् अमलहृदयेन स्वकीयं वैभवं प्रकटयति। बालाः न कदापि द्वेषं धारयन्ति, क्षमाशीलाः सन्ति, तेषां हृदयं सर्वदा उद्घाटितं भवति। अत एव येशुः वयस्कानां प्रति बालकः इव भवितुम् उपदिष्टवान्, यतः ईश्वरस्य राज्यं तेषामेव।
अस्माकं कामना अस्ति यत् अस्माकं बालानां बाल्यं प्रार्थनाभिः, स्तोत्रैः, प्रभुनाम्नोच्चरणेन च परिपूर्णं भवेत्, येन ते धीरपुरुषाः, दिव्ययोजनायुक्ताः, अन्धकारं जेतुं, बहूनि जीवाः येशोः समीपं नेतुं च समर्थाः भवेयुः।
अधुना काले ईश्वरः बालकान् महत्त्वपूर्णकार्येषु नियोजयिष्यति। अतः तेषां समयार्थं शिक्षणं प्रशिक्षणं च आवश्यकम्।
तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म। ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।
यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।
यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति।
अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।
तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।
यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव। तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे। इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः। यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति। इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः। इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्। अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह, किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे।
यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव।
अपरञ्च तस्या गर्ब्भस्य षष्ठे मासे जाते गालील्प्रदेशीयनासरत्पुरे दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः। स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या। तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास। अतएव हे महामहिमथियफिल् त्वं या याः कथा अशिक्ष्यथास्तासां दृढप्रमाणानि यथा प्राप्नोषि ततो दूतोऽवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति। पश्य त्वं गर्ब्भं धृत्वा पुत्रं प्रसोष्यसे तस्य नाम यीशुरिति करिष्यसि। स महान् भविष्यति तथा सर्व्वेभ्यः श्रेष्ठस्य पुत्र इति ख्यास्यति; अपरं प्रभुः परमेश्वरस्तस्य पितुर्दायूदः सिंहासनं तस्मै दास्यति; तथा स याकूबो वंशोपरि सर्व्वदा राजत्वं करिष्यति, तस्य राजत्वस्यान्तो न भविष्यति। तदा मरियम् तं दूतं बभाषे नाहं पुरुषसङ्गं करोमि तर्हि कथमेतत् सम्भविष्यति? ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति। अपरञ्च पश्य तव ज्ञातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भेऽधारयत् तस्य षष्ठमासोभूत्। किमपि कर्म्म नासाध्यम् ईश्वरस्य। तदा मरियम् जगाद, पश्य प्रभेरहं दासी मह्यं तव वाक्यानुसारेण सर्व्वमेतद् घटताम्; अननतरं दूतस्तस्याः समीपात् प्रतस्थे।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
अथ कतिपयदिनात् परं मरियम् तस्मात् पर्व्वतमयप्रदेशीययिहूदाया नगरमेकं शीघ्रं गत्वा तदर्थं प्रथममारभ्य तानि सर्व्वाणि ज्ञात्वाहमपि अनुक्रमात् सर्व्ववृत्तान्तान् तुभ्यं लेखितुं मतिमकार्षम्। सिखरिययाजकस्य गृहं प्रविश्य तस्य जायाम् इलीशेवां सम्बोध्यावदत्। ततो मरियमः सम्बोधनवाक्ये इलीशेवायाः कर्णयोः प्रविष्टमात्रे सति तस्या गर्ब्भस्थबालको ननर्त्त। तत इलीशेवा पवित्रेणात्मना परिपूर्णा सती प्रोच्चैर्गदितुमारेभे, योषितां मध्ये त्वमेव धन्या, तव गर्ब्भस्थः शिशुश्च धन्यः। त्वं प्रभोर्माता, मम निवेशने त्वया चरणावर्पितौ, ममाद्य सौभाग्यमेतत्। पश्य तव वाक्ये मम कर्णयोः प्रविष्टमात्रे सति ममोदरस्थः शिशुरानन्दान् ननर्त्त। या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।
बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तयञ्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्।
तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः। ममात्मा तारकेशे च समुल्लासं प्रगच्छति। अकरोत् स प्रभु र्दुष्टिं स्वदास्या दुर्गतिं प्रति। पश्याद्यारभ्य मां धन्यां वक्ष्यन्ति पुरुषाः सदा। यः सर्व्वशक्तिमान् यस्य नामापि च पवित्रकं। स एव सुमहत्कर्म्म कृतवान् मन्निमित्तकं। यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति। स्वबाहुबलतस्तेन प्राकाश्यत पराक्रमः। मनःकुमन्त्रणासार्द्धं विकीर्य्यन्तेऽभिमानिनः। सिंहासनगताल्लोकान् बलिनश्चावरोह्य सः। पदेषूच्चेषु लोकांस्तु क्षुद्रान् संस्थापयत्यपि। क्षुधितान् मानवान् द्रव्यैरुत्तमैः परितर्प्य सः। सकलान् धनिनो लोकान् विसृजेद् रिक्तहस्तकान्। इब्राहीमि च तद्वंशे या दयास्ति सदैव तां। स्मृत्वा पुरा पितृणां नो यथा साक्षात् प्रतिश्रुतं। इस्रायेल्सेवकस्तेन तथोपक्रियते स्वयं॥
पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः। इत्थं दृष्ट्वा बालकस्यार्थे प्रोक्तां सर्व्वकथां ते प्राचारयाञ्चक्रुः।
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः, तद् दृष्ट्वा ते महानन्दिता बभूवुः, ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः। पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे। अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते। तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे, गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्। अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास। अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥ यदेतद् वचनं यिरीमियनामकभविष्यद्वादिना कथितं तत् तदानीं सफलम् अभूत्। तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान् यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास। तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट, सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि। यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति। दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा, सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥ ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः। पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः। इत्थं दृष्ट्वा बालकस्यार्थे प्रोक्तां सर्व्वकथां ते प्राचारयाञ्चक्रुः। ततो ये लोका मेषरक्षकाणां वदनेभ्यस्तां वार्त्तां शुश्रुवुस्ते महाश्चर्य्यं मेनिरे। किन्तु मरियम् एतत्सर्व्वघटनानां तात्पर्य्यं विविच्य मनसि स्थापयामास। तदनुसारेण कुरीणियनामनि सुरियादेशस्य शासके सति नामलेखनं प्रारेभे। तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः। अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे। ततः परं मूसालिखितव्यवस्थाया अनुसारेण मरियमः शुचित्वकाल उपस्थिते, "प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया यीशुं परमेश्वरे समर्पयितुम् शास्त्रीयविध्युक्तं कपोतद्वयं पारावतशावकद्वयं वा बलिं दातुं ते तं गृहीत्वा यिरूशालमम् आययुः। यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः। अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत। अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा, हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्। अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः। यतः सकलदेशस्य दीप्तये दीप्तिरूपकं। इस्रायेलीयलोकस्य महागौरवरूपकं। यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥ तदानीं तेनोक्ता एताः सकलाः कथाः श्रुत्वा तस्य माता यूषफ् च विस्मयं मेनाते। ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति। तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते। अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य परमेश्वरस्य धन्यवादं चकार, यिरूशालम्पुरवासिनो यावन्तो लोका मुक्तिमपेक्ष्य स्थितास्तान् यीशोर्वृत्तान्तं ज्ञापयामास। इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते। तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद् तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव। तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्। अपरञ्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा पार्व्वणं सम्पाद्य पुनरपि व्याघुय्य यातः किन्तु यीशुर्बालको यिरूशालमि तिष्ठति। यूषफ् तन्माता च तद् अविदित्वा स सङ्गिभिः सह विद्यत एतच्च बुद्व्वा दिनैकगम्यमार्गं जग्मतुः। किन्तु शेषे ज्ञातिबन्धूनां समीपे मृगयित्वा तदुद्देेशमप्राप्य तौ पुनरपि यिरूशालमम् परावृत्यागत्य तं मृगयाञ्चक्रतुः। अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः। तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते। तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म। ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते? यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम। किन्तु तौ तस्यैतद्वाक्यस्य तात्पर्य्यं बोद्धुं नाशक्नुतां। ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास। अथ यीशो र्बुद्धिः शरीरञ्च तथा तस्मिन् ईश्वरस्य मानवानाञ्चानुग्रहो वर्द्धितुम् आरेभे। अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः, तद् दृष्ट्वा ते महानन्दिता बभूवुः, ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः। पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे।
यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते। तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे, गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्।
अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते।
अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास। अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥ यदेतद् वचनं यिरीमियनामकभविष्यद्वादिना कथितं तत् तदानीं सफलम् अभूत्।
तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्। अपरञ्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा
तदनन्तरं हेरेदि राजनि मृते परमेश्वरस्य दूतो मिसर्देशे स्वप्ने दर्शनं दत्त्वा यूषफे कथितवान् यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम। त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः। तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम। किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्, तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।
अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे। ततः परं मूसालिखितव्यवस्थाया अनुसारेण मरियमः शुचित्वकाल उपस्थिते, "प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया यीशुं परमेश्वरे समर्पयितुम् शास्त्रीयविध्युक्तं कपोतद्वयं पारावतशावकद्वयं वा बलिं दातुं ते तं गृहीत्वा यिरूशालमम् आययुः।
यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः। अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत। अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा, हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्। अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः। यतः सकलदेशस्य दीप्तये दीप्तिरूपकं। इस्रायेलीयलोकस्य महागौरवरूपकं। यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥ तदानीं तेनोक्ता एताः सकलाः कथाः श्रुत्वा तस्य माता यूषफ् च विस्मयं मेनाते। ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति। तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते।
अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य परमेश्वरस्य धन्यवादं चकार, यिरूशालम्पुरवासिनो यावन्तो लोका मुक्तिमपेक्ष्य स्थितास्तान् यीशोर्वृत्तान्तं ज्ञापयामास।
इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते। तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद् तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।
तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्। अपरञ्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा पार्व्वणं सम्पाद्य पुनरपि व्याघुय्य यातः किन्तु यीशुर्बालको यिरूशालमि तिष्ठति। यूषफ् तन्माता च तद् अविदित्वा स सङ्गिभिः सह विद्यत एतच्च बुद्व्वा दिनैकगम्यमार्गं जग्मतुः। किन्तु शेषे ज्ञातिबन्धूनां समीपे मृगयित्वा तदुद्देेशमप्राप्य तौ पुनरपि यिरूशालमम् परावृत्यागत्य तं मृगयाञ्चक्रतुः। अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः। तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते। तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म। ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते? यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम। किन्तु तौ तस्यैतद्वाक्यस्य तात्पर्य्यं बोद्धुं नाशक्नुतां। ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास। अथ यीशो र्बुद्धिः शरीरञ्च तथा तस्मिन् ईश्वरस्य मानवानाञ्चानुग्रहो वर्द्धितुम् आरेभे।