स्वर्गीय पिता नः निरन्तरं प्रार्थनां कर्तुम् आदिष्टवान्। प्रार्थनाद्वारेणैव वयं भगवता सह सम्बन्धं कुर्मः। प्रार्थना भक्तस्य सम्पर्कसाधनम् अस्ति। प्रार्थनाद्वारेणैव वयं सर्वाणि याचनानि स्रष्टुः चरणेषु निवेदयामः। यदा जीवने किमपि समीचीनं न भवति, यदा भारग्रस्ताः दुःखिताश्च भवामः, तदा तस्यैव शरणं गच्छामः। प्रार्थनाद्वारेण भगवान् अस्माकम् आवश्यकताः, अस्माकं वाणीं च ज्ञातुम् आरभते। जन्मतः पूर्वमपि सः अस्माकं जीवनं जानाति, किन्तु सः इच्छति यत् वयं तेन सह वार्तालापं कुर्मः, तं मार्गयामः च। प्रार्थनायां त्वं भगवता सह मैत्रीं, आत्मीयतां सम्बन्धं च दृढीकर्तुम् आरभसे। येशौ भक्तस्य रूपेण तव अस्त्रम् एतत्, येन प्रत्येकं युद्धं प्रतिरक्षसि, यतः प्रार्थनायामेव सर्वेषां विजयः प्राप्यते। प्रार्थनायाः शक्तिः त्वत्तः न आगच्छति। शक्तिः येशौ वर्तते; सः एव प्रार्थनां शृणोति, मानुषदृष्ट्या असम्भवम् अपि सम्भवं करोति। यदा हृदयेन प्रार्थयामहे, तदा पितुः सांत्वनां, शान्तिं प्रेम च प्राप्तुं शक्नुमः। खिन्नहृदयेन नम्रभावेन च भगवन्तं समीपं गच्छ, सः कदापि त्वां न तिरस्करिष्यति। (इफिसीयन्स ६:१८) सर्वदा आत्मनि प्रार्थयध्वं, याचनाभिः प्रार्थनाभिः च। जागरूकतया सर्वेषां सिद्धानां कृते प्रार्थनायां दृढतया तिष्ठत। यदा प्रार्थसे, तदा धन्यवादं ज्ञापय, केवलं याचनाः मा निवेदय, किन्तु तस्य सम्मुखे मौनं भव। (१ थेस्सलनीकीयन्स ५:१६-१८) सर्वदा आनन्दितः भव, निरन्तरं प्रार्थयस्व, सर्वेषु परिस्थितिषु भगवते धन्यवादं देहि, यतः ख्रीष्टे येशौ एषा तव कृते तस्य इच्छा वर्तते।
अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥
अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।
किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।
ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।
यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।
वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;
यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।