प्राणाः प्रियतमाः, ईश्वरस्य पवित्रात्मना सह सम्भाषणार्थं प्रार्थना वरदानम् अस्ति। प्रार्थनायां स्वतन्त्रतया, अप्रच्छन्नतया, निष्कपटतया च तस्य सान्निध्ये वक्तुं शक्नुमः। आरम्भे प्रार्थनापूर्णं जीवनं दुष्करं प्रतीयते, परन्तु यथा यथा ईश्वरं जानीमः, तथा तथा तस्मिन् प्रेम वर्धते, तस्य विना क्षणमपि जीवितुं न इच्छामः। सर्वं प्रभोः साक्षात्कारात् आरभते, तत्रैव निरन्तरप्रार्थनायाः अभ्यासः जायते, यतः तं जानीमः, तस्मिन् प्रेम कुर्मः, सः प्रथमं अस्मान् प्रेम कृतवान् इति स्वीकुर्मः। प्रार्थनापूर्णं जीवनं यापयित्वा तस्य प्रेम प्रति प्रेम प्रदर्शयितुं शक्नुमः।
ईश्वरेण सह सम्भाषणं श्रेष्ठतमं चिकित्सा अस्ति। तस्मात् अधिकं कोऽपि न अवगच्छति, तस्य करुणायाः सामर्थ्यं गभीरतमाः क्षताः आरोपयितुं, दुःखं चापनयितुम् अस्ति। तस्मिन् निन्दा नास्ति, तस्य अनुग्रहः पतनात् उत्थापयितुं सदैव सज्जः अस्ति।
भवतः प्रार्थनाजीवनं कीदृशम् अस्ति इति न जानामि, केनचित् कारणेन दूरे गताः वा। किन्तु अद्यः तस्य समीपं गत्वा, सर्वं कथयितुं शुभदिनम् अस्ति इति जानामि। ईश्वरः अस्माभिः सह निरन्तरं सम्भाषणं, सर्वेषु कार्येषु तं प्राधान्येन स्थापयितुं इच्छति। स्वर्गस्थपितुः सन्ततयः, सर्वदा सम्पर्कः आवश्यकः अस्ति। ईश्वरः वचने आदिशति "अविरतं प्रार्थयध्वम्" (१ थेस्सलनीकैः ५:१७)।
प्रार्थनाद्वारा युद्धेषु विजयं प्राप्नुमः, मानवानां कृते अशक्यं साधयामः। ईश्वरः भवद्भिः सह सम्भाषणं कर्तुम्, जीवनं नेतुं च इच्छति। प्रार्थयध्वं, प्रियपित्रेण सह सर्वदा वदत।
यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।
यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।
तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl
सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि। यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्। तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति। स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
अतो हेतोरहं युष्मान् वच्मि, प्रार्थनाकाले यद्यदाकांक्षिष्यध्वे तत्तदवश्यं प्राप्स्यथ, इत्थं विश्वसित, ततः प्राप्स्यथ।
तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति। अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।
मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः, स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां। नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां। नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं। यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव। किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव। तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति। सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।
लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते।
वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।