विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।