आत्मिकं वस्त्रम् इव पवित्रता वर्तते, यया ईश्वरीययोजनायै, ईश्वरीयप्रयोजनायै च समर्पितः, पृथक्कृतश्च भवामि। ईश्वरसम्बन्धे इदं लक्ष्यम् अस्ति यत् तस्मै स्वसंरक्षणं, पापजनित-अशुचित्वात् च विरतिम् अपेक्षते। कालान्तं यावत् ईश्वरे निष्ठावन्तः, अनन्तजीवनप्राप्तिं च ये प्राप्स्यन्ति, तान् एव पवित्रान् इदं वाक्यं सूचयति। बहुभ्यः श्रद्धालुभ्यः, क्लेशपरीक्षाभिः परिवृतस्य जगतः मध्ये अपोकॅलिप्स-ग्रन्थस्य पवित्राः मोक्षस्य, आशायाः च प्रतिज्ञायाः प्रतीकं भवन्ति। ईश्वरवाणी अपोकॅलिप्स-ग्रन्थे कथयति यत् सुगन्धद्रव्यपूर्णेषु स्वर्णपात्रेषु सः पवित्राणां प्रार्थनाः धारयति (प्रकाशना ५:८)। प्रिय पितः, अस्माकं प्रार्थनाः कदापि न विस्मरसि, तस्मै कृतज्ञतां ज्ञापयामः।
ये मानवा ईश्वरस्याज्ञा यीशौ विश्वासञ्च पालयन्ति तेषां पवित्रलोकानां सहिष्णुतयात्र प्रकाशितव्यं।
तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वाङ्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।
त उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?
अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।
भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥
एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।
ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।
पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।
अधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु।
अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
ततः परं तेषां प्राचीनानाम् एको जनो मां सम्भाष्य जगाद शुभ्रपरिच्छदपरिहिता इमे के? कुतो वागताः?
ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।
विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥
मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।
मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।
हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।
परित्राणप्राप्तलोकनिवहाश्च तस्या आलोके गमनागमने कुर्व्वन्ति पृथिव्या राजानश्च स्वकीयं प्रतापं गौरवञ्च तन्मध्यम् आनयन्ति।
अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।