प्रिये, न केवलं वचनैः ईश्वरप्रेम प्रकटीभवति, अपि तु आज्ञापालनेन, समर्पणेन, धार्मिकतया च पूर्णतया समर्पणेन। एतत् ज्ञानम् अस्ति यत् सर्वाधिकं सुन्दरं सत्त्वं अस्मान् प्रेम करोति, अस्माकं दोषान् अपि दृष्ट्वा। एतस्मात् ज्ञानात्, अस्माकं महती आकाङ्क्षा भवति यत् तस्य नाम्नि पवित्रं जीवनं यापयामः।
यदा वयं जानीमः यत् ईश्वरः अस्मभ्यं कः अस्ति, यदा च वयं तस्य सर्वेषां आशीर्वादनां स्मरणं कुर्मः यानि सः अस्मासु वर्षितवान्, तदा तस्य विषये अस्माकं दृष्टिकोणः परिवर्तते। वयं तस्य वचनस्य, तस्य आज्ञानां च पालनार्थं यतमानाः भवामः, तं न खेदयितुं दृढनिश्चयाः। अस्माकं हृदयं तस्य प्रति सच्चेन सम्मानेन परिपूर्णं भवति, यतः वयं जानीमः यत् सः पवित्रतायाः सम्मानस्य च योग्यः अस्ति।
अतः, अद्य त्वां प्रेरयामि यत् तव प्रधानं लक्ष्यं न भवेत् यत् त्वं ख्रीष्टकार्यार्थं किं कर्तुं शक्नोषि, अपि तु तव महत्तमं प्रभुप्रति कृतज्ञता इयं भवेत् यत् त्वं स्वहृदयं सर्वस्मात् अपवित्राच्च दुष्टाच्च रक्षसि। यतः ईश्वरः तव जीवनं आशिषा दातुं निश्चितवान् अस्ति स्वप्रेम्णः कारणात्, तस्मै सर्वं यशः सर्वं च सम्मानं दत्त्वा तत्प्रेम प्रति प्रतिक्रियां कर्तुं यत्नं कुरु। सः पवित्रः, अतः वयं अपि पवित्राः भवितुं यतेमहि। यः कृतज्ञतायाः यज्ञं करोति सः माम् पूजयति, यः च स्वमार्गं सम्यक् व्यवस्थापयति तस्मै अहं ईश्वरस्य मोक्षं दर्शयामि ( भजनसंहिता ५०:२३ )।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,
अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत। यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।
ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या। अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्। तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्। अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं। पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्। ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्। ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित। अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं। अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं। स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च। तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते। अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं। यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं। विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत। यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत। ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च। हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते। हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं। पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।
वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति। यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव। संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।
ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
अतो यदि कश्चिद् एतादृशेभ्यः स्वं परिष्करोति तर्हि स पावितं प्रभोः कार्य्ययोग्यं सर्व्वसत्कार्य्यायोपयुक्तं सम्मानार्थकञ्च भाजनं भविष्यति।
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं। यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः। एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः। एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते। अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां। अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति। यदि ख्रीष्टो युष्मान् अधितिष्ठति तर्हि पापम् उद्दिश्य शरीरं मृतं किन्तु पुण्यमुद्दिश्यात्मा जीवति। मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति। हे भ्रातृगण शरीरस्य वयमधमर्णा न भवामोऽतः शारीरिकाचारोऽस्माभि र्न कर्त्तव्यः। यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ। यतो यावन्तो लोका ईश्वरस्यात्मनाकृष्यन्ते ते सर्व्व ईश्वरस्य सन्ताना भवन्ति। यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत। अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति। अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः। किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये। यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते। जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।
अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते। ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।
यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।
शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि। स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत् स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्। अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं, प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा, तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति। युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत। यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति, स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः। सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत। किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः, यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये। तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च। अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः। अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। अपरं शयताने स्थानं मा दत्त। चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु। अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु। प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम् ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति। शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व, एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान् स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,