भवतः हृदये एव पवित्रस्थानम् अस्ति, तत्र च गर्भगृहम् अपि। पूर्वं पुरोहिताः एव प्रतिदिनं पवित्रस्थानं प्रविश्य भगवतः पूजां कुर्वन्ति स्म। अन्येभ्यः प्रवेशः निषिद्धः आसीत्, अपवित्राणां प्रवेशे मृत्युदण्डः अपि भवेत्।
किन्तु भगवान् सर्वदा मानवानां सह सम्बन्धं कामयते, पापेन विच्छेदः जातेऽपि। येशुः ख्रीष्टः, अस्माकं महापुरोहितः, स्वप्राणान् बलिदानरूपेण अर्पयित्वा पापेभ्यः मुक्तिं दत्तवान्। पवित्रस्थानस्य आवरणं यस्य विच्छेदस्य प्रतीकम् आसीत्, तस्य नाशः अभवत्।
इदानीं वयं स्वर्गस्थपितुः समीपं गत्वा तस्य महिमानं पूजयितुं शक्नुमः। पूर्वं पवित्रस्थानप्रवेशः अशक्यः आसीत्, किन्तु इदानीं येशोः रक्तेन पवित्राः भूत्वा पापरहिताः जीवितुं शक्नुमः। कल्वरीस्थक्रुशे यस्य रक्तं प्रवाहितम्, तेन वयं शुद्धाः स्मः।
शान्त्या पवित्रतया च जीवितुं यत्नं कुर्मः, यतः पवित्रतां विना कश्चित् अपि प्रभुं द्रष्टुं न शक्नोति (इब्रीयानाम् १२:१४)। हे प्रिय उद्धारक, भवतः उपस्थितेः आनन्दं अनुभवन्तः कृतज्ञाः स्मः।
तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वाङ्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
सोऽस्मान् परित्राणपात्राणि कृतवान् पवित्रेणाह्वानेनाहूतवांश्च; अस्मत्कर्म्महेतुनेति नहि स्वीयनिरूपाणस्य प्रसादस्य च कृते तत् कृतवान्। स प्रसादः सृष्टेः पूर्व्वकाले ख्रीष्टेन यीशुनास्मभ्यम् अदायि,
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।
यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।
ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।
युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्?
को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?
यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।
युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥
वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।