प्रिय, ईश्वरस्य प्रेम एतत् आदेशं ददाति यत् यः ईश्वरं प्रेम करोति सः स्वभ्रातरमपि प्रेम कुर्यात्। ईश्वरं ज्ञात्वा प्रेम करोति, यतः प्रेम तस्यैव स्वरूपम् अस्ति। यदि त्वं वदसि यत् त्वं ईश्वरं प्रेम करोसि किन्तु स्वसमीपस्थं न प्रेम करोसि, तर्हि त्वं स्वात्मानं वञ्चयसि।
प्रतिदिनं येशुं प्रकाशय। कथं? दानशीलहृदयं धारय। अन्ये किं कुर्वन्ति इति न चिन्तय, अपि तु त्वं तैः कृते किं करोसि इति चिन्तय। येशुः अस्माकं पापानां निमित्तं क्रुसि स्वजीवनं दत्त्वा स्वप्रेम प्रदर्शितवान्।
अतः स्वभ्रातॄणां कृते कल्याणं कर्तुं मा विमुखः भव। तेषां अपराधान् क्षमस्व, तेषां दोषान् सहस्व। तेषां विश्रामस्थानं भव, सा हस्तः भव या कदापि न दोषारोपं करिष्यति।
यत्र बहूनां प्रेम शीतलं जातं, तत्र त्वं प्रेम कुरु, अमिटानि चिह्नानि आत्मनि स्थापय यानि मधुराणि स्मरणानि क्षणांश्च जनयन्ति। आध्यात्मिकं आधारं भव। प्रार्थनां कर्तुं प्रोत्साहय। शास्त्राध्ययनं कुरु। ये ईश्वरं न स्वीकृतवन्तः, तैः सह ईश्वरविषये वद। कदाचित् तत् वचनं फलं दास्यति, ईश्वरस्य कार्याणि दृष्ट्वा त्वं महानन्दं प्राप्स्यसि इति विश्वासः अस्ति। (१ योहन् ४.२१)
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
वाक्यमेतद् विश्वसनीयम् अतो हेतोरीश्वरे ये विश्वसितवन्तस्ते यथा सत्कर्म्माण्यनुतिष्ठेयुस्तथा तान् दृढम् आज्ञापयेति ममाभिमतं।तान्येवोत्तमानि मानवेभ्यः फलदानि च भवन्ति।
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।
ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।
अपरं तस्येयमाज्ञा यद् वयं पुत्रस्य यीशुख्रीष्टस्य नाम्नि विश्वसिमस्तस्याज्ञानुसारेण च परस्परं प्रेम कुर्म्मः।
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत।
तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,
एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा,
तव समीपवासिनि स्वात्मनीव प्रेम कुरु।
परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।
किन्त्वस्मासु सिद्धतां गतेषु तानि खण्डमात्राणि लोपं यास्यन्ते।
बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तयञ्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्।
इदानीम् अभ्रमध्येनास्पष्टं दर्शनम् अस्माभि र्लभ्यते किन्तु तदा साक्षात् दर्शनं लप्स्यते। अधुना मम ज्ञानम् अल्पिष्ठं किन्तु तदाहं यथावगम्यस्तथैवावगतो भविष्यामि।
इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।
अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।
ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?
अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज्ञा तस्माद् अस्माभि र्लब्धा।
तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।
प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।
अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,
अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।
तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।
अस्माकं कृते स स्वप्राणांस्त्यक्तवान् इत्यनेन वयं प्रेम्नस्तत्त्वम् अवगताः, अपरं भ्रातृणां कृते ऽस्माभिरपि प्राणास्त्यक्तव्याः।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।
भ्रातृषु प्रेमकरणमधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं यतो यूयं परस्परं प्रेमकरणायेश्वरशिक्षिता लोका आध्वे।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,
निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।
यः सत्यरूपेण युष्माकं हितं चिन्तयति तादृश एकभावस्तस्मादन्यः कोऽपि मम सन्निधौ नास्ति।
यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।
किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।
अतएव मम भाविदशां ज्ञात्वा तत्क्षणात् तमेव प्रेषयितुं प्रत्याशां कुर्व्वे
स्वयम् अहमपि तूर्णं युष्मत्समीपं गमिष्यामीत्याशां प्रभुना कुर्व्वे।
अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।
यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च।
स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्।
अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं।
अतो यूयं प्रभोः कृते सम्पूर्णेनानन्देन तं गृह्लीत तादृशान् लोकांश्चादरणीयान् मन्यध्वं।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।
केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;
यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।
अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।
केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।
शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं।
तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।
वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।