प्रज्ञायाः उद्गमः भगवान् एव अस्ति। यदि वयं प्राज्ञाः भवितुम् इच्छामः, तर्हि तस्मै समीपं गन्तव्यम्। प्रज्ञाम् प्रेम कर्तुम्, प्रथमं तं प्रेम कर्तव्यम् यः तां ददाति, अस्माकं स्वर्गीयपितरम्। दिव्यां प्रज्ञां प्रतिदिनं याचामहे, येन वयं सत्पथे प्रचलितुं शक्नुमः, हृदयाय यत् साधु तत् कर्तुं शक्नुमः। सर्वदा प्रज्ञा अस्माकं सहचरी भवेत्। एवं वयं न्यूनानि दोषाणि करिष्यामः दृढं च गमिष्यामः। यतः प्राज्ञः जनः सफलतां प्राप्तुं शक्नोति, यदि भगवान् तं मार्गदर्शनं करोति। यदि कस्यापि प्रज्ञायाः अभावः अस्ति, तर्हि भगवन्तं याचताम्। सः दास्यति एव। यतः भगवान् सर्वेभ्यः प्रचुरतया ददाति, न कञ्चन अपमानयति। किन्तु श्रद्धया याचताम्, संशयं विना। यतः संशयशीलः जनः समुद्रतरङ्गः इव भवति, वायुना इतस्ततः क्षिप्यमाणः। (याकूब १:५-६) श्रद्धया भगवतः प्रज्ञां याचामहे, प्राप्स्यामः च। प्रज्ञायाः आरम्भः भगवद्भयम् इति स्मरामः। भगवतः भयं कुरु, सः ते पदानि मार्गदर्शयिष्यति। स्वभावेन भावनया वा न प्रलोभयितव्यः। पापात् दूरं तिष्ठ। भगवतः वाणीं श्रूयताम्, तस्मै आज्ञापालनं कुरु, तदा भवान् अस्मिन् भुवने प्राज्ञः मन्यते।
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं। युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः। तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।
फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते। यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन् आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ? ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति। यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।