ईश्वरस्य प्रेम अद्भुतम्, विशुद्धम्, पूर्णम्, निष्कामम्। न किमपि अपेक्षते, न स्वार्थं चिन्तयति, सर्वव्यापि च। यथा योहन् ३.१६-१८ उक्तं, जगति तादृशं प्रेम ईश्वरस्य आसीत् यत् स्वपुत्रमेकं ददौ येन यः कश्चित् तस्मिन् विश्वसिति स न नश्येत् किन्तु अनन्तायुः प्राप्नुयात्।
अमापं, निन्दारहितं, पक्षपातरहितं च प्रेम त्वयि ईश्वरस्य वर्तते। न त्वं साधुः असि अथवा प्रेमयोग्यः असि इति कारणात् न प्रेम करोति, किन्तु त्वं तस्मै बहुमूल्यः असि इति हेतोः प्रेम करोति। त्वदीयानि पापानि दृष्ट्वा अपि स त्वां न तिरस्करोति, पुनः पुनश्च आलिङ्गति।
तादृशं प्रेम त्वयि वर्तते यत् सर्वस्वं तव कृते दत्तवान्, न किमपि त्वत्तः अपेक्षमाणः। त्वं विफलः भविष्यसि इति ज्ञात्वा अपि स त्वां प्रेम करोति स्म। अतः तत् प्रेमं बहुमूल्यं मत्वा कृतज्ञः भव, यतः तदेव तव जीवने श्रेष्ठतमं वस्तु। तेन प्रेम्णा शान्तिः, आरोग्यं, पुनरुत्थानं, स्वातन्त्र्यं च प्राप्नोषि।
कदापि न क्षीयते तस्य प्रेम। प्रतिप्रभातं "त्वां प्रेमयामि" इति वदिष्यति, आकाशं विलोक्य तव कृते मुस्कुरास्यति, दृढहस्तेन च सदैव धारयिष्यति। महत्कार्याय त्वां चिन्तितवान्, न च त्यक्ष्यति। न त्यजति तस्य प्रेम, प्रतिदिनं स एव, युगानुयुगं स्थिरा तस्य निष्ठा, न कदापि मिथ्यावादी।
करुणापूर्णं, दयालुं च तत् प्रेम केवलं स्वीकर्तव्यम्। न गणयति अस्माकं पापानि, क्षमते च स्वीकरोति च। यथा धर्मग्रन्थे उक्तं, न कदापि विनश्यति प्रेम। सर्वेषां आवश्यकं जीवनस्य महत् आधारः प्रेम एव।
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।
किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते
वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः
ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।
ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो ऽस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।
येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्
अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।
परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।"
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त
किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।
तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।
ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।
इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,
ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।
अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,
अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।
तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
पिता यथा मयि प्रीतवान् अहमपि युष्मासु तथा प्रीतवान् अतो हेतो र्यूयं निरन्तरं मम प्रेमपात्राणि भूत्वा तिष्ठत।