प्रिय, येशुः स्वशिष्यान् स्वकार्याय अतिसूक्ष्मतया शिक्षितवान्। ते तस्य जीवनस्य महत्त्वपूर्णानां क्षणसाक्षिणः भविष्यन्ति, तस्य पुनरुत्थानस्य प्रचारं च कुर्वन्ति। एते द्वादश शिष्याः तस्य मित्राणि आसन्, येषु स पूर्णतया विश्वस्तः आसीत्। अधिकांशाः गालीलप्रदेशीयाः येशोः इव, केचित् तेषां विवाहिताः अपि।
ईश्वरवचनम् "अतः आवश्यकी भवति यत् यः पुरुषः अस्माभिः सह सर्वदा सहासीत् यदा प्रभुः येशुः अस्माकं मध्ये आसीत्, योहन्-मज्जनकालात् यावत् सः अस्मन्मध्यात् नीतः, सः अस्माभिः सह तस्य पुनरुत्थानस्य साक्षी भवेत्" ( प्रेरितकर्म १:२१-२२ ) इति। अत्र पितरः वदति यत् ये केवलं योहन्-मज्जनकालात् उपस्थिताः आसन् ते एव शिष्यत्वेन चितुं शक्याः।
ततः सः वदति यत् तैः येशोः मृत्योः पुनरुत्थानस्य च साक्षिभिः भवितव्यम्। अतः भविष्यतः शिष्याय प्रधानं लक्षणम् आसीत् यत् सः येशोः स्वर्गारोहणपर्यन्तं उपस्थितः तं दृष्टवान् च आसीत्। एतत् चिन्तनीयं वर्तते।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।
अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।
मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं
ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः
प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः।
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
यस्मात् तदा यो वक्ष्यति स न यूयं किन्तु युष्माकमन्तरस्थः पित्रात्मा।
सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
गुरोः शिष्यो न महान्, प्रभोर्दासो न महान्।
यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?
किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।
यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,
युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।
अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
यो मनुजसाक्षान्मामङ्गीकुरुते तमहं स्वर्गस्थतातसाक्षादङ्गीकरिष्ये।
पृथ्व्यामहं शान्तिं दातुमागतइति मानुभवत, शान्तिं दातुं न किन्त्वसिं।
पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि।
ततः स्वस्वपरिवारएव नृशत्रु र्भविता।
यः पितरि मातरि वा मत्तोधिकं प्रीयते, स न मदर्हः;
यश्च सुते सुतायां वा मत्तोधिकं प्रीयते, सेापि न मदर्हः।
यः स्वक्रुशं गृह्लन् मत्पश्चान्नैति, सेापि न मदर्हः।
यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।
किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।
एकादश शिष्या यीशुनिरूपितागालीलस्याद्रिं गत्वा
तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।
पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।
यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
वयं स्वान् घोषयाम इति नहि किन्तु ख्रीष्टं यीशुं प्रभुमेवास्मांश्च यीशोः कृते युष्माकं परिचारकान् घोषयामः।
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।
अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,
पौलः सिल्वानस्तीमथियश्च पितुरीश्वरस्य प्रभो र्यीशुख्रीष्टस्य चाश्रयं प्राप्ता थिषलनीकीयसमितिं प्रति पत्रं लिखन्ति। अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रत्यनुग्रहं शान्तिञ्च क्रियास्तां।
अथ दिने सति स सर्व्वान् शिष्यान् आहूतवान् तेषां मध्ये
पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च
मथिः थोमा आल्फीयस्य पुत्रो याकूब् ज्वलन्तनाम्ना ख्यातः शिमोन्
च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।
पौलः सिल्वानस्तीमथियश्चेतिनामानो वयम् अस्मदीयतातम् ईश्वरं प्रभुं यीशुख्रीष्टञ्चाश्रितां थिषलनीकिनां समितिं प्रति पत्रं लिखामः।
ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।
ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।
अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।
पश्चाल् लोकास्तद् विदित्वा तस्य पश्चाद् ययुः; ततः स तान् नयन् ईश्वरीयराज्यस्य प्रसङ्गमुक्तवान्, येषां चिकित्सया प्रयोजनम् आसीत् तान् स्वस्थान् चकार च।
अपरञ्च दिवावसन्ने सति द्वादशशिष्या यीशोरन्तिकम् एत्य कथयामासुः, वयमत्र प्रान्तरस्थाने तिष्ठामः, ततो नगराणि ग्रामाणि गत्वा वासस्थानानि प्राप्य भक्ष्यद्रव्याणि क्रेतुं जननिवहं भवान् विसृजतु।
तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।
तत्र प्रायेण पञ्चसहस्राणि पुरुषा आसन्।
तदा स शिष्यान् जगाद पञ्चाशत् पञ्चाशज्जनैः पंक्तीकृत्य तानुपवेशयत, तस्मात् ते तदनुसारेण सर्व्वलोकानुपवेशयापासुः।
ततः स तान् पञ्च पूपान् मीनद्वयञ्च गृहीत्वा स्वर्गं विलोक्येश्वरगुणान् कीर्त्तयाञ्चक्रे भङ्क्ता च लोकेभ्यः परिवेषणार्थं शिष्येषु समर्पयाम्बभूव।
ततः सर्व्वे भुक्त्वा तृप्तिं गता अवशिष्टानाञ्च द्वादश डल्लकान् संजगृहुः।
अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?
ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।
अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
अस्माकं त्राणकर्त्तुरीश्वरस्यास्माकं प्रत्याशाभूमेः प्रभो र्यीशुख्रीष्टस्य चाज्ञानुसारतो यीशुख्रीष्टस्य प्रेरितः पौलः स्वकीयं सत्यं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखति।
यूयं मां रोचितवन्त इति न, किन्त्वहमेव युष्मान् रोचितवान् यूयं गत्वा यथा फलान्युत्पादयथ तानि फलानि चाक्षयाणि भवन्ति, तदर्थं युष्मान् न्यजुनजं तस्मान् मम नाम प्रोच्य पितरं यत् किञ्चिद् याचिष्यध्वे तदेव स युष्मभ्यं दास्यति।
ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
अनन्तजीवनस्याशातो जाताया ईश्वरभक्ते र्योग्यस्य सत्यमतस्य यत् तत्वज्ञानं यश्च विश्वास ईश्वरस्याभिरुचितलोकै र्लभ्यते तदर्थं
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।
ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।
पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।
ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।
ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।
ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।
सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।
परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।
तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।
मन्दिरस्य सुन्दरे द्वारे य उपविश्य भिक्षितवान् सएवायम् इति ज्ञात्वा तं प्रति तया घटनया चमत्कृता विस्मयापन्नाश्चाभवन्।
आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।
स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः।
अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।
तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।
स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।
पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।
चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
तदा द्वादशप्रेरिताः सर्व्वान् शिष्यान् संगृह्याकथयन् ईश्वरस्य कथाप्रचारं परित्यज्य भोजनगवेषणम् अस्माकम् उचितं नहि।
अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,
किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।
तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्,
नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।
इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः।
किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
अपरञ्च युयं मम परीक्षाकाले प्रथममारभ्य मया सह स्थिता
एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।
इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।
इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।
तद् दृष्ट्वा पितरस्तेभ्योऽकथयत्, हे इस्रायेलीयलोका यूयं कुतो ऽनेनाश्चर्य्यं मन्यध्वे? आवां निजशक्त्या यद्वा निजपुण्येन खञ्जमनुष्यमेनं गमितवन्ताविति चिन्तयित्वा आवां प्रति कुतोऽनन्यदृष्टिं कुरुथ?
इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।
ततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः,
स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
तस्मिन् समये हेरोद्राजो मण्डल्याः कियज्जनेभ्यो दुःखं दातुं प्रारभत्।
इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्।
तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।
स विविच्य मार्कनाम्रा विख्यातस्य योहनो मातु र्मरियमो यस्मिन् गृहे बहवः सम्भूय प्रार्थयन्त तन्निवेशनं गतः।
पितरेण बहिर्द्वार आहते सति रोदानामा बालिका द्रष्टुं गता।
ततः पितरस्य स्वरं श्रुवा सा हर्षयुक्ता सती द्वारं न मोचयित्वा पितरो द्वारे तिष्ठतीति वार्त्तां वक्तुम् अभ्यन्तरं धावित्वा गतवती।
ते प्रावोचन् त्वमुन्मत्ता जातासि किन्तु सा मुहुर्मुहुरुक्तवती सत्यमेवैतत्।
तदा ते कथितवन्तस्तर्हि तस्य दूतो भवेत्।
पितरो द्वारमाहतवान् एतस्मिन्नन्तरे द्वारं मोचयित्वा पितरं दृष्ट्वा विस्मयं प्राप्ताः।
ततः पितरो निःशब्दं स्थातुं तान् प्रति हस्तेन सङ्केतं कृत्वा परमेश्वरो येन प्रकारेण तं काराया उद्धृत्यानीतवान् तस्य वृत्तान्तं तानज्ञापयत्, यूयं गत्वा याकुबं भ्रातृगणञ्च वार्त्तामेतां वदतेत्युक्ता स्थानान्तरं प्रस्थितवान्।
प्रभाते सति पितरः क्व गत इत्यत्र रक्षकाणां मध्ये महान् कलहो जातः।
विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।
तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,
अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।
एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।
तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।
पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।
व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।
अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।
एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्।
चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा
किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्।
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।
तैश्च राज्ञि प्रार्थिते, ईश्वरो बिन्यामीनो वंशजातस्य कीशः पुत्रं शौलं चत्वारिंशद्वर्षपर्य्यन्तं तेषामुपरि राजानं कृतवान्।
पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान।
तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।
तस्य प्रकाशनात् पूर्व्वं योहन् इस्रायेल्लोकानां सन्निधौ मनःपरावर्त्तनरूपं मज्जनं प्राचारयत्।
यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।
हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।
तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।
ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।
तद्वार्त्तां श्रुत्वा बर्णब्बापौलौ स्वीयवस्त्राणि छित्वा लोकानां मध्यं वेगेन प्रविश्य प्रोच्चैः कथितवन्तौ,
ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य
इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।
एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
इत्थं लोकानां गात्रेषु प्रेरितयोः करार्पणेन तान् पवित्रम् आत्मानं प्राप्तान् दृष्ट्वा स शिमोन् तयोः समीपे मुद्रा आनीय कथितवान्;
अहं यस्य गात्रे हस्तम् अर्पयिष्यामि तस्यापि यथेत्थं पवित्रात्मप्राप्ति र्भवति तादृशीं शक्तिं मह्यं दत्तं।
अन्यच्च भक्तलोकास्तं स्तिफानं श्मशाने स्थापयित्वा बहु व्यलपन्।
किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;
ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति।
पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः।
ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ।
तेनैव सर्व्वे धर्म्मसमाजाः ख्रीष्टधर्म्मे सुस्थिराः सन्तः प्रतिदिनं वर्द्धिता अभवन्।
तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।
तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।
स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।
एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।
यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।
अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?
प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।
अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।
तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्
हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।
भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते।
सर्व्वेषां कर्म्मणां यस्तु साधकः परमेश्वरः। स एवेदं वदेद्वाक्यं शेषाः सकलमानवाः। भिन्नदेशीयलोकाश्च यावन्तो मम नामतः। भवन्ति हि सुविख्यातास्ते यथा परमेशितुः।
तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥
आ प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति।
अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं
प्रियबर्णब्बापौलाभ्यां सार्द्धं मनोनीतलोकानां केषाञ्चिद् युष्माकं सन्निधौ प्रेषणम् उचितं बुद्धवन्तः।
अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ।
करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,
पौलो मिलीताद् इफिषं प्रति लोकं प्रहित्य समाजस्य प्राचीनान् आहूयानीतवान्।
तेषु तस्य समीपम् उपस्थितेषु स तेभ्य इमां कथां कथितवान्, अहम् आशियादेशे प्रथमागमनम् आरभ्याद्य यावद् युष्माकं सन्निधौ स्थित्वा सर्व्वसमये यथाचरितवान् तद् यूयं जानीथ;
सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।
अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि
यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्यङ्गानि सन्ति किन्तु सर्व्वेषामङ्गानां कार्य्यं समानं नहि;
तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।
भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।
यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते
पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।
अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
हे भ्रातरः, मया यः सुसंवादो घोषितः स मानुषान्न लब्धस्तदहं युष्मान् ज्ञापयामि।
अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।
ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।
किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।
यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।
किन्त्वीश्वरेणास्मान् परीक्ष्य विश्वसनीयान् मत्त्वा च यद्वत् सुसंवादोऽस्मासु समार्प्यत तद्वद् वयं मानवेभ्यो न रुरोचिषमाणाः किन्त्वस्मदन्तःकरणानां परीक्षकायेश्वराय रुरोचिषमाणा भाषामहे।
अतो हे भ्रातरः यूयम् अस्माकं वाक्यैः पत्रैश्च यां शिक्षां लब्धवन्तस्तां कृत्स्नां शिक्षां धारयन्तः सुस्थिरा भवत।
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।
अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।
ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।
यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।
अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।