प्रिय, येशोः अनुगामिनां मार्गदर्शनं कुर्वतां गुरूणां महान् दायित्वम् अस्ति। तेषां व्यवहारः श्रद्धा च आदर्शरूपा भवेयुः येन जनाः तेषां जीवने ईश्वरं प्रतिबिम्बितं पश्येयुः।
ईश्वरस्य पुरः जनानां च पुरः कस्यापि समुदायस्य मार्गदर्शनं महत् सौभाग्यम्। बहुवारं जनाः तेषां परिश्रमं न अवगच्छन्ति, परन्तु सर्वज्ञः ईश्वरः स्वर्गलोके महत् फलं तेषां कृते रक्षितवान् अस्ति।
विस्मरामः मा स्म यत् गुरवः सर्वतः प्रथमं ईश्वरस्य सन्तानाः सन्ति। ते मानवाः सन्ति, दोषान् कुर्वन्ति, भावनाः अपि धारयन्ति। यद्यपि वयं न विश्वसिमः, तथापि प्रोत्साहस्य कृतज्ञतायाः वचनैः ते अतिशयेन प्रसन्नाः भवन्ति।
तेषां कृते प्रार्थयामहे यत् ईश्वरः तेषां रक्षणं कुर्यात् सर्वदा च मार्गदर्शनं दद्यात्। तेषां जीवनं सम्मानयामः, उत्तमसेवां च कुर्मः येन ते स्वकीयं मूल्यं अनुभवन्ति।
हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं। स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।
यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।
अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।
ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि।
वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः, अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।
ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
अहं युष्मानतियथार्थं वदामि, यो जनो द्वारेण न प्रविश्य केनाप्यन्येन मेषगृहं प्रविशति स एव स्तेनो दस्युश्च।
यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा। अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत। तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।
अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते? यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते। तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।
किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत; यश्च युष्माकं मध्ये मुख्यो बुभूषति, स युष्माकं दासो भवेत्। इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत, वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत। तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम? कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम? कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम? किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः। तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत। तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश। पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।
ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?
कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते? तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति, हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत। तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि, तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय। ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय। पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु; यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु; तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
लोका अस्मान् ख्रीष्टस्य परिचारकान् ईश्वरस्य निगूठवाक्यधनस्याध्यक्षांश्च मन्यन्तां। ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः। वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते। वयमद्यापि जगतः सम्मार्जनीयोग्या अवकरा इव सर्व्वै र्मन्यामहे। युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि। यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं। अतो युष्मान् विनयेऽहं यूयं मदनुगामिनो भवत। इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं। अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति। किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि। किञ्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
वयं युष्माकं विश्वासस्य नियन्तारो न भवामः किन्तु युष्माकम् आनन्दस्य सहाया भवामः, यस्माद् विश्वासे युष्माकं स्थिति र्भवति।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं। अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु। अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं। परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च। यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च। त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते। यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते। अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति। अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं। यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते? अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं। यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।
त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्। तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः। यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं, उपदेशे च विश्वस्तं वाक्यं तेन धारितव्यं यतः स यद् यथार्थेनोपदेशेन लोकान् विनेतुं विघ्नकारिणश्च निरुत्तरान् कर्त्तुं शक्नुयात् तद् आवश्यकं।
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।
ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि। क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु। तस्य गौरवं पराक्रमश्चानन्तकालं यावद् भूयात्। आमेन्। यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्। युष्माभिः सहाभिरुचिता या समिति र्बाबिलि विद्यते सा मम पुत्रो मार्कश्च युष्मान् नमस्कारं वेदयति। यूयं प्रेमचुम्बनेन परस्परं नमस्कुरुत। यीशुख्रीष्टाश्रितानां युष्माकं सर्व्वेषां शान्ति र्भूयात्। आमेन्। युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा। अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत। तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।
यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति। अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति। येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति। किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति। अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते। अतएव यूयं फलेन तान् परिचेष्यथ।
शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः। क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।
दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति। अहं पिता च द्वयोरेकत्वम्। ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्। यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ? यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः। तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं? तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं, तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय? यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत; किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ। तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।
अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,
यतो युष्माकं मम च विश्वासेन वयम् उभये यथा शान्तियुक्ता भवाम इति कारणाद् युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।
पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः। अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्। अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः। रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते। आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा, तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं। यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्। केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च, य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।
हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;
हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि
तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं निर्द्दोषञ्च वाक्यं प्रकाशय तेन विपक्षो युष्माकम् अपवादस्य किमपि छिद्रं न प्राप्य त्रपिष्यते।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति। ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद, यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।
ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः। यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं। यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।
यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं। युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।
अस्माकं कृते स स्वप्राणांस्त्यक्तवान् इत्यनेन वयं प्रेम्नस्तत्त्वम् अवगताः, अपरं भ्रातृणां कृते ऽस्माभिरपि प्राणास्त्यक्तव्याः।