पुराकाले देवगृहेषु, मन्दिरेषु, सभास्थानेषु नृत्यं निषिद्धम् आसीत्, आदिमकाले चर्चासु अपि नृत्यस्य स्थानं नासीत्। अधुना तु नृत्यं भगवतः पूजनायाः एकं माध्यमं मन्यते, येन वचनैः अवर्णनीयं भावं शरीरेण अभिव्यक्तुं शक्यते।
नृत्यं परमात्मने नमः अर्पणस्य, स्वस्य उल्लासस्य प्रदर्शनस्य, प्रतिदिनं प्राप्यमाणानां विजयानां च उत्सवस्य एका उपायः अस्ति। बाइबल् इत्यस्मिन् ग्रन्थे नृत्यस्य प्रथमं वर्णनं तदा आगतं यदा इस्राएलीयाः रक्तसागरं अतिक्रान्ताः।
निर्गमग्रन्थस्य १५:२०-२१ इत्यत्र वर्णितं यत् हारूनस्य भगिनी मरियम एकं पणवं गृहीत्वा नृत्यं कृतवती, अन्याः महिलाः अपि पणवैः सह तां अनुसृत्य नृत्यं गीतं च कृतवत्यः, भगवतः महिम्नः कृते, रक्तसागरे मिश्रसेनायाः पराजयस्य कृते च।
एषः उत्सवः खुले स्थाने अभवत् इति विशेषतः ध्यातव्यम्। एतेन ज्ञायते यत् भगवान् इच्छति यत् वयं सर्वेषां कृते येन सः अस्माकं कृते करोति, तस्य कृते आनन्देन, नृत्येन, उल्लासेन च उत्सवं कुर्मः, पूर्णस्वतन्त्रतया जीवनं यापयामः च।
वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।
तदानीं मरियम् जगाद। धन्यवादं परेशस्य करोति मामकं मनः।
ममात्मा तारकेशे च समुल्लासं प्रगच्छति।
यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।
ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।
परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।
अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।
य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।
तद्घटिकायां यीशु र्मनसि जाताह्लादः कथयामास हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतां विदुषाञ्च लोकानां पुरस्तात् सर्व्वमेतद् अप्रकाश्य बालकानां पुरस्तात् प्राकाशय एतस्माद्धेतोस्त्वां धन्यं वदामि, हे पितरित्थं भवतु यद् एतदेव तव गोचर उत्तमम्।
तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः।
परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां।
पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।
यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
यतोऽस्माकम् ईश्वरः संहारको वह्निः।
अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।
ततः परं स्वर्गस्थानां महाजनताया महाशब्दो ऽयं मया श्रूतः, ब्रूत परेश्वरं धन्यम् अस्मदीयो य ईश्वरः। तस्याभवत् परित्राणां प्रभावश्च पराक्रमः।
अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।
अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।
तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।
स रुधिरमग्नेन परिच्छदेनाच्छादित ईश्वरवाद इति नाम्नाभिधीयते च।
अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति।
तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।
अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।
अनन्तरं सूर्य्ये तिष्ठन् एको दूतो मया दृष्टः, आकाशमध्य उड्डीयमानान् सर्व्वान् पक्षिणः प्रति स उच्चैःस्वरेणेदं घोषयति, अत्रागच्छत।
ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।
ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।
विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥
ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।
अवशिष्टाश्च तस्याश्वारूढस्य वक्त्रनिर्गतखङ्गेन हताः, तेषां क्रव्यैश्च पक्षिणः सर्व्वे तृप्तिं गताः।
पुनरपि तैरिदमुक्तं यथा, ब्रूत परेश्वरं धन्यं यन्नित्यं नित्यमेव च। तस्या दाहस्य धूमो ऽसौ दिशमूर्द्ध्वमुदेष्यति॥