नगरस्य कृते प्रार्थनायां न केवलं स्थानमेव प्रार्थनया आच्छादयामः, अपि तु तत्र निवसतां सर्वेषां कृते अपि यत् प्रत्येकगृहे शान्तिः प्रसरतु, यस्याः आवश्यकता लैटिन-अमेरिकायां विश्वे च अतिमात्रम् अस्ति। यिर्मियाह २९:७ इति वचनम् अस्मान् बोधयति यत् यस्मिन् नगरे भवन्तः स्थापिताः तस्य कल्याणार्थं प्रार्थना कर्तव्या, यतः तस्य नगरस्य अभ्युदये भवतामपि अभ्युदयः भविष्यति। ईश्वरस्य सन्तानानां रूपेण अस्माकं कर्तव्यम् अस्ति यत् वयं यत्र निवसामः तस्य स्थानस्य कृते प्रार्थनां कुर्मः। अस्माभिः आक्रोशेन मध्यस्थतां च कर्तव्यम्। अस्माकं आगमनम् अत्र आकस्मिकं नास्ति, अपि तु जनानाम् आवश्यकतायां मध्ये ईश्वरस्य उत्तररूपेण अस्माकं उपस्थितिः अस्ति।
अहं दृढं विश्वसिमि यत् अस्माकं प्रत्येकस्य महत्वपूर्णं प्रयोजनम् अस्मिन् नगरे अस्ति। ईश्वरः अस्मान् यन्त्ररूपेण उपयोगं कुर्यात् येन बहवः जनाः तं अस्मासु पश्येयुः। बालकानां, युवकानां, प्रौढानां, वृद्धानां च कृते प्रार्थनां कुर्मः। पितरं प्रार्थयामहे यत् तेषां जीवने तस्य अद्भुतयोजना पूर्णा भवेत्, ते च आत्ममोक्षं प्राप्नुयुः।
अस्माभिः दुष्टशक्तीनां प्रभुत्वं न स्वीकर्तव्यम्। ये दुष्टात्मानः अस्माकं नगरे शासनं कर्तुम् इच्छन्ति तेषां विरुद्धं दृढं तिष्ठामः। न बिभेम, ईश्वरः अस्माभिः सह अस्ति, सः अस्मान् युद्धाय, यीशुख्रीष्टेन क्रूसबलिदानेन प्रदत्तस्वातन्त्र्यघोषणाय च समर्थान् करोति। स्मरामः यत् अस्माकं युद्धं मानवानां विरुद्धं नास्ति, अपि तु अस्मिन् संसारे विद्यमानानां दुष्टशक्तीनां विरुद्धम् अस्ति। ईश्वरस्य सर्वसज्जिकया युक्ताः भूत्वा विजयं स्वकीयम् अवगच्छामः।
हस्तान् उन्नीय, स्वरान् उच्चार्य प्रार्थयामहे यत् ईश्वरः दयां कुर्यात्, तस्य योजना विश्वसृष्टेः पूर्वं यथा चिन्तिता आसीत् तथा पूर्णा भवेत्। अन्यैः सह मिलित्वा, अन्यैः धर्मसंघैः सह प्रयत्नं कृत्वा, उपवासम्, जागरणं च कृत्वा, नगरस्य मार्गेषु गत्वा यीशोः नाम्नि ईश्वरस्य आशीर्वादं घोषयामः।
तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्
यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।
मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,
स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां।
नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं।
यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव।
किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव।
तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।
सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।
पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,
हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।
लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।
तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
ते यथा देशाधिपानां शासकानाञ्च निघ्ना आज्ञाग्राहिण्श्च सर्व्वस्मै सत्कर्म्मणे सुसज्जाश्च भवेयुः
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।