भवन्तः पादरयः सिद्धाः न सन्ति, मानवाः सन्ति ये प्रतिदिनं जीवनस्य चुनौतीभिः सह युध्यन्ति। तेषां जीवनं परीक्षितुं वा दोषारोपणं कर्तुं भवतः कर्तव्यं नास्ति; यः परीक्षितुं समर्थः सः केवलं क्रिस्तो येशुः, पृथिव्यामेकः सत्यः न्यायाधीशः। भवद्भिः पादरिभ्यः किं कर्तुं शक्यते तत् भवन्तः ईश्वरस्य सम्मुखे उपस्थिताः भूत्वा तेषां कृते प्रार्थनां कुर्वन्तु, पवित्रात्मा यत् तेषां दुर्बलतासु साहाय्यं करोतु, तेषां मनोबलं न हीयेत इति प्रार्थयन्ताः। शैतानः सर्वदा भवतः पादरिणाम् आक्रमणं कर्तुं चेष्टिष्यति, यतो ज्ञातस्ति यत् सः ईश्वरस्य कार्यं स्थगितं कर्तुं शक्यते, विभेदान् जनयितुं शक्यते, सेवकाचार्यस्य कार्यमपि स्थगितं कर्तुं शक्यते। भवतः प्रेमस्य महत्तमं प्रदर्शनं न केवलं वचनैः "अहं भवतः प्रेम करोमि" इति कथयित्वा तेषां प्रशंसा कर्तुम् अस्ति, अपि तु भवतः कर्माणि भवतः प्रेमं प्रदर्शयेयुः। भवन्तः पादरिभ्यः रक्षकः भवन्तु, यतो ते मानवाः सन्ति, येषां कदाचित् साहाय्यस्य आवश्यकता भवति।
यदि भवन्तः पादरिणाम् सेवकदलेन सह समीपस्थितुम् इच्छन्ति, तर्हि भवतः हृदयं नियन्त्रितुं विनम्रतया च तत् कर्तुं शिक्षध्वम्। येशोः कृते प्रार्थनां कृत्वा नार्जितां स्थितिं मा अपेक्षध्वम्, भवतः कृते मानवीयं प्रशंसां मा आशिशध्वम्। भवतः प्रार्थना सरला भवतु, क्रिस्तेन सह भारं वहन्तः, तस्य इच्छानुसारं प्रार्थयन्ताः, प्रभावी प्रार्थनायै पवित्रात्मनः मार्गदर्शनं प्रार्थयन्ताः, समये फलानि पश्यन्तः। यथा इब्रानि १३.७ वदति, अहं सर्वान् पठतः उत्तमप्रार्थकाः भवितुं प्रोत्साहयामि, ये निरन्तरं स्वेषां आध्यात्मिकनेतॄणाम् कृते प्रार्थनां कुर्वन्ति।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।
तेन प्रधानपालक उपस्थिते यूयम् अम्लानं गौरवकिरीटं लप्स्यध्वे।
यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,
अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।
तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥
अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्,
युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।
अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?
यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?
यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं।
अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु।
अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।
परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।
यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।
त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते।
यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।
अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं
अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,
तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।
पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
पौलः कः? आपल्लो र्वा कः? तौ परिचारकमात्रौ तयोरेकैकस्मै च प्रभु र्यादृक् फलमददात् तद्वत् तयोर्द्वारा यूयं विश्वासिनो जाताः।
अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।
अतो रोपयितृसेक्तारावसारौ वर्द्धयितेश्वर एव सारः।
रोपयितृसेक्तारौ च समौ तयोरेकैकश्च स्वश्रमयोग्यं स्ववेतनं लप्स्यते।
आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।
हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,
अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
यूयमत्र किं विविंग्घ्वे? कस्यचिद् यदि शतं मेषाः सन्ति, तेषामेको हार्य्यते च, तर्हि स एकोनशतं मेषान् विहाय पर्व्वतं गत्वा तं हारितमेकं किं न मृगयते?
यदि च कदाचित् तन्मेषोद्देशं लमते, तर्हि युष्मानहं सत्यं कथयामि, सोऽविपथगामिभ्य एकोनशतमेषेभ्योपि तदेकहेतोरधिकम् आह्लादते।
तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।
विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।
कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।
सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,
तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।
शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।
क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।
यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।
यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं।
स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।
ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।