बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

67 जागरणार्थं बाइबिलश्लोकाः

प्रिय, पवित्रात्मनोऽनन्तशः परितोषदायकं प्रेम च शोकावसरे वक्तुं परमशान्तिदायकं भवति। मानुषवाक्यानि दुःखितचित्तस्य शान्तिं न सम्पादयेयुः, किन्तु ख्रीष्टे येशौ आशा अस्थिभूतां स्वस्थतां जनयति। एतादृशे दुःखमये समये उपस्थितानां करुणाचित्तानां मध्ये येशोः विषये वक्तुं तेषां च ये अद्यापि तं स्वस्य एकमात्रं पर्याप्तं च त्राणकर्ता न स्वीकुर्वन्ति, तेभ्यः उपदेशं दातुम् उत्तमः अवसरः उपलभ्यते। त्राणसन्देशप्रचारः दिवंगतस्य जीवने येशोः सन्निधिश्च उपस्थितानां हृदयेषु धैर्यमुत्पादयति, विशेषतः पुनर्मिलनस्य आशा यदीश्वरदत्तं त्राणं येशुख्रीष्टद्वारा स्वीकुर्वन्ति। आवश्यकं वर्तते यत् भवान् पवित्रात्मना पूर्णः स्यात् येन ईश्वरः भवन्तं यन्त्ररूपेण उपयुज्य सर्वान् परितोषयेत्, धैर्यं च दद्यात्। ईश्वरः भवतः जीवनं मार्गदर्शयेत् स्वप्रेम च भवता प्रदर्शयेत्। भवान् एव योग्यः परितोषदायकः, आश्रयदाता येशोश्च प्रतिबिम्बं स्वमुखे धारयितुम्।


रोमियों 14:8

किन्तु यदि वयं प्राणान् धारयामस्तर्हि प्रभुनिमित्तं धारयामः, यदि च प्राणान् त्यजामस्तर्ह्यपि प्रभुनिमित्तं त्यजामः, अतएव जीवने मरणे वा वयं प्रभोरेवास्महे।

योहन 11:25-26

तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;

यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?

योहन 5:24

युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।

योहन 11:25

तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;

मत्ती 5:4

खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।

1 थिस्सलुनीकियों 4:13-14

हे भ्रातरः निराशा अन्ये लोका इव यूयं यन्न शोचेध्वं तदर्थं महानिद्रागतान् लोकानधि युष्माकम् अज्ञानता मया नाभिलष्यते।

यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।

योहन 16:22

तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।

1 कुरिन्थियों 15:22

आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।

फिलिप्पियों 1:21

यतो मम जीवनं ख्रीष्टाय मरणञ्च लाभाय।

फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

1 थिस्सलुनीकियों 4:14-17

यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।

यतोऽहं प्रभो र्वाक्येन युष्मान् इदं ज्ञापयामि; अस्माकं मध्ये ये जनाः प्रभोरागमनं यावत् जीवन्तोऽवशेक्ष्यन्ते ते महानिद्रितानाम् अग्रगामिनोन न भविष्यन्ति;

यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।

अपरम् अस्माकं मध्ये ये जीवन्तोऽवशेक्ष्यन्ते त आकाशे प्रभोः साक्षात्करणार्थं तैः सार्द्धं मेघवाहनेन हरिष्यन्ते; इत्थञ्च वयं सर्व्वदा प्रभुना सार्द्धं स्थास्यामः।

योहन 5:28-29

एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।

तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।

2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।

यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

प्रकाशितवाक्य 21:3-4

अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।

तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।

1 कुरिन्थियों 15:54-57

एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।

मृत्यो ते कण्टकं कुत्र परलोक जयः क्क ते॥

मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।

ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।

योहन 14:1-3

मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।

अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।

अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।

अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।

यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।

यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।

यदि मयि प्रीयध्वे तर्हि ममाज्ञाः समाचरत।

ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।

एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।

अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।

कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।

मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।

पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा ज्ञास्यथ।

यो जनो ममाज्ञा गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।

तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?

ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।

यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।

इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि।

किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।

तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।

यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।

योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

2 कुरिन्थियों 5:1-5

अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।

अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।

यदि वयं हतज्ञाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज्ञाना भवामस्तर्हि तद् युष्मदर्थकं।

वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।

अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।

अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।

यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।

यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आकाङ्क्ष्यमाणा निःश्वसामः।

अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।

यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।

तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।

एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।

एतदर्थं वयं येन सृष्टाः स ईश्वर एव स चास्मभ्यं सत्यङ्कारस्य पणस्वरूपम् आत्मानं दत्तवान्।

मत्ती 11:28

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

2 कुरिन्थियों 5:6-8

अतएव वयं सर्व्वदोत्सुका भवामः किञ्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः,

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।

2 कुरिन्थियों 5:1

अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।

प्रकाशितवाक्य 14:13

अपरं स्वर्गात् मया सह सम्भाषमाण एको रवो मयाश्रावि तेनोक्तं त्वं लिख, इदानीमारभ्य ये प्रभौ म्रियन्ते ते मृता धन्या इति; आत्मा भाषते सत्यं स्वश्रमेभ्यस्तै र्विरामः प्राप्तव्यः तेषां कर्म्माणि च तान् अनुगच्छन्ति।

प्रकाशितवाक्य 2:10

त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।

फिलिप्पियों 1:23-24

द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।

किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।

1 कुरिन्थियों 15:51

पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।

रोमियों 14:7-9

अपरम् अस्माकं कश्चित् निजनिमित्तं प्राणान् धारयति निजनिमित्तं म्रियते वा तन्न;

किन्तु यदि वयं प्राणान् धारयामस्तर्हि प्रभुनिमित्तं धारयामः, यदि च प्राणान् त्यजामस्तर्ह्यपि प्रभुनिमित्तं त्यजामः, अतएव जीवने मरणे वा वयं प्रभोरेवास्महे।

यतो जीवन्तो मृताश्चेत्युभयेषां लोकानां प्रभुत्वप्राप्त्यर्थं ख्रीष्टो मृत उत्थितः पुनर्जीवितश्च।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

2 तीमुथियु 4:7-8

अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।

शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।

कुलुस्सियों 3:2

पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

1 योहन 5:11-12

तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।

यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।

इब्रानियों 6:19-20

सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।

अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम।

तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।

गलातियों 6:2

युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।

रोमियों 12:15

ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।

योहन 10:28-30

अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति।

यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।

दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति।

अहं पिता च द्वयोरेकत्वम्।

इफिसियों 2:8-9

यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,

तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।

ईश्वरस्य प्रार्थना

हे प्रभो, तव स्तुतिं करोमि, तव पवित्रं नाम गृह्णामि। महान् ते दया, तव करुणायां वयं स्थिताः स्मः। तव प्रेम एव नः आधारः, यदा आत्मा क्लान्ता भवति, तदा अपि न पातयसि। हे प्रभो, यीशुनाम्ना प्रार्थयामि, अस्मिन् दुःखदायके वियोगे तव पवित्रात्मा सर्वान् बान्धवान् सान्त्वयतु, बलं ददातु, तव दिव्यां शान्तिं प्रदानं करोतु, या केवलं त्वत्तः एव लभ्यते। यथा तव वचनम् अस्ति, "ये रुदन्ति ते धन्याः, यतः ते शान्तिं प्राप्स्यन्ति।" हे प्रभो, अस्मिन् दुःखे तान् रक्ष, ये त्वां न जानन्ति ते त्वां स्वस्य जीवनस्य एकमात्रं स्वामिनं स्वीकुर्वन्तु। वयं ये त्वया सह स्मः, न म्रियन्ते अपि तु जीवन्ति, पुनरुत्थास्यन्ति च। येशोः नाम्नि। आमेन्।