बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

124 क्लेशानां कठिनसमयानां च विषये बाइबिलश्लोकाः

भगवतः मम जीवनस्य आशा अस्ति, अतः अहं विश्वासं न त्यक्ष्यामि। सः मम रक्षणं करोति, अतः अहं न किञ्चित् अपि दुःखं बिभेमि। यः मम आत्मानं रक्षति सः न निद्राति, न च मम पादः कस्मिंश्चित् अश्मनि स्खलति। तस्य प्रेम मां दृढं धारयिष्यति। विपत्तीनां मध्ये अपि लिखितम् अस्ति - "दुर्गः परमेश्वरस्य नाम अस्ति, तत्र धार्मिकः धावति, सुरक्षितः च भवति"। अतः अहं निश्चिन्ता भविष्यामि, तस्य वचनात् अधिकं ज्ञास्यामि, तस्य महत्कार्याणि च ध्यास्यामि। दुष्टानां कार्याणि मम हृदि निराशां न जनयिष्यन्ति, अपि तु तस्य मुखस्य वचांसि पठिष्यामि, मम आत्मा च प्राणान् प्राप्स्यति।

भगवान् दयालुः अस्ति, प्रतिदिनं प्रातः तस्य दया नवीना भवति, प्रतिदिनं च सः मम प्रति प्रेम दर्शयति। मनुष्याः विफलाः भवेयुः, परन्तु येशुः स्वस्य प्रतिज्ञाः पालयति। सः व्रणान् रोपयिष्यति, क्षतान बद्ध्वा रक्षिष्यति, पीडां दूरिष्यति, प्रत्येकं अश्रुं च मार्जयिष्यति। यानि वचनानि पूर्वं मम आत्मानं दुःखितं अकुर्वन् तानि अतीतस्य वस्तूनि भविष्यन्ति, यच्च क्षणिकं मां विचलितं अकरोत् तत् तस्य शक्त्या अहम् अतिष्ठम्। भगवतः स्तुतिं करोमि, यः अनन्तजीवनस्य स्रोतः अस्ति, मम आत्मा च तस्य लेखनात् सान्त्वनां प्राप्नोति। यशाय ४३.१९ वदति, "पश्य, अहं नूतनं किमपि करोमि, तत् शीघ्रं प्रकाशं यास्यति, किं त्वं न जानासि?" पुनः अहं मरुभूमौ मार्गं, निर्जने प्रदेशे नदीं च करिष्यामि। यत् पूर्वं मम अस्तित्वं बाधितं अकरोत् तत् न भविष्यति; या निन्दा मयि आसीत् सा दूरीकृता। भगवतः पूजां कृतवान् अस्मि अतः सः महान्ति कार्याणि मम कृते सज्जीकृतानि अस्ति। परीक्षा गमिष्यति, प्रक्रिया समाप्तिं यास्यति, अहं च आगामिभिः विषयेभ्यः आनन्दं प्राप्स्यामि।

पवित्रात्मनः मन्दवायुना मम आत्मा उत्साहितः भवति, यथा प्रातःकालीना ओसधारा या वनस्पतिभ्यः आवश्यकम्, यथा वर्षा या भूमिं शीतलां करोति।


रोमियों 5:3-5

तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः,

धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,

प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।

2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु।

यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

1 पतरस 5:10

क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

2 तीमुथियु 3:12

परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति।

योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

रोमियों 8:18

किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।

योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

याकूब 1:2-4

हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।

यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।

अतो हेतो र्यूयं सर्व्वाम् अशुचिक्रियां दुष्टताबाहुल्यञ्च निक्षिप्य युष्मन्मनसां परित्राणे समर्थं रोपितं वाक्यं नम्रभावेन गृह्लीत।

अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।

यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।

आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।

किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।

अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।

क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।

तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।

1 कुरिन्थियों 10:13

मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

इब्रानियों 12:1-2

अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।

ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति।

शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अतएव यूयं शिथिलान् हस्तान् दुर्ब्बलानि जानूनि च सबलानि कुरुध्वं।

यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात।

अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।

यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,

यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत।

यतः स एषौः पश्चाद् आशीर्व्वादाधिकारी भवितुम् इच्छन्नपि नानुगृहीत इति यूयं जानीथ, स चाश्रुपातेन मत्यन्तरं प्रार्थयमानोऽपि तदुपायं न लेभे।

अपरञ्च स्पृश्यः पर्व्वतः प्रज्वलितो वह्निः कृष्णावर्णो मेघो ऽन्धकारो झञ्भ्श तूरीवाद्यं वाक्यानां शब्दश्च नैतेषां सन्निधौ यूयम् आगताः।

तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः।

यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत।

निरन्तरं प्रार्थनां कुरुध्वं।

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

लूका 1:37

किमपि कर्म्म नासाध्यम् ईश्वरस्य।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

योहन 14:1

मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।

2 कुरिन्थियों 4:16-18

ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।

क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,

यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः।

मत्ती 11:28

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

1 पतरस 4:12-13

हे प्रियतमाः, युष्माकं परीक्षार्थं यस्तापो युष्मासु वर्त्तते तम् असम्भवघटितं मत्वा नाश्चर्य्यं जानीत,

किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।

योहन 15:7

यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

1 योहन 4:4

हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।

मत्ती 5:10-12

धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।

यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।

2 कुरिन्थियों 12:9

ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

फिलिप्पियों 1:29

यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,

1 पतरस 1:6-7

तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।

यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।

मत्ती 6:34

श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

रोमियों 10:13

यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।

1 कुरिन्थियों 15:57

ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।

फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

मत्ती 14:27

तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।

2 कुरिन्थियों 4:7-9

अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं।

वयं पदे पदे पीड्यामहे किन्तु नावसीदामः, वयं व्याकुलाः सन्तोऽपि निरुपाया न भवामः;

वयं प्रद्राव्यमाना अपि न क्लाम्यामः, निपातिता अपि न विनश्यामः।

याकूब 4:7

अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।

मत्ती 10:29-31

द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,

युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।

अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।

रोमियों 4:20-21

अपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार;

किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।

इब्रानियों 12:11

शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

2 कुरिन्थियों 1:8-9

हे भ्रातरः, आशियादेशे यः क्लेशोऽस्मान् आक्राम्यत् तं यूयं यद् अनवगतास्तिष्ठत तन्मया भद्रं न मन्यते। तेनातिशक्तिक्लेशेन वयमतीव पीडितास्तस्मात् जीवनरक्षणे निरुपाया जाताश्च,

अतो वयं स्वेषु न विश्वस्य मृतलोकानाम् उत्थापयितरीश्वरे यद् विश्वासं कुर्म्मस्तदर्थम् अस्माभिः प्राणदण्डो भोक्तव्य इति स्वमनसि निश्चितं।

1 योहन 5:14

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

रोमियों 8:26-27

तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।

अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।

2 कुरिन्थियों 5:7

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

याकूब 1:12

यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।

1 थिस्सलुनीकियों 1:3

अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते

मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

रोमियों 5:1-2

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।

तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।

तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।

यतो व्यवस्थादानसमयं यावत् जगति पापम् आसीत् किन्तु यत्र व्यवस्था न विद्यते तत्र पापस्यापि गणना न विद्यते।

तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते।

किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।

अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव।

यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।

एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव।

अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।

अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।

1 पतरस 3:14

यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।

फिलिप्पियों 3:10

यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा

इब्रानियों 6:19

सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।

रोमियों 12:19

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

2 तीमुथियु 4:17-18

किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।

अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

मत्ती 5:4

खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।

2 कुरिन्थियों 1:5

यतः ख्रीष्टस्य क्लेशा यद्वद् बाहुल्येनास्मासु वर्त्तन्ते तद्वद् वयं ख्रीष्टेन बहुसान्त्वनाढ्या अपि भवामः।

रोमियों 8:37

अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

ईश्वरस्य प्रार्थना

करुणामय प्रभो, भवतः कृपापूर्णहस्ताभ्यां मां रक्षित्वा कष्टकालेऽपि साहाय्यं प्रदाय कृतज्ञोऽस्मि। भवतः दृढहस्तेन धृतः अहं न पतितोऽस्मि। हे मम जीवनप्रदातः, भवतः अर्चनं कथं न करोमि? प्रभुना यीशुना मार्गदर्शितः अहं भवतः समीपम् आगच्छामि, मम हृदयं मम आत्मानं च समर्पयामि। यदा भवतः समीपात् दूरं गच्छामि, मम शक्तिः क्षीणा भवति, मम उत्साहः नश्यति। परन्तु भवान् जीवनस्य शान्तेश्च दाता। अतः अहं प्रार्थयामि यत् मयि धार्मिकं भावं नवीकरोतु, मम शरीरं बलवत्, मम हृदयं धैर्यवत् कुर्वतु यतोऽहं इदं युद्धं जेतुं शक्नुयाम्। अद्य अहं घोषयामि यत् भवान् मम रक्षकः, मम प्रभुः, मम शरणस्थानम्, मम रक्षितारः, मम मुक्तिदाता, मम बलम्, मम कवचम्, मम परमं रक्षणम्, मम उच्चं आश्रयस्थानम्। यीशुः इव दृढशिलायां स्थितः अहं न पतिष्यामि, न च विचलितः भविष्यामि। भवतः वचनम् अस्ति, "भवान् मम दया, मम दुर्गम्, मम बलम्, मम मुक्तिदाता, मम कवचम्, यस्मिन् अहं विश्वासं करोमि, यः मम प्रजायाः पालकः।" कार्यस्य गृहस्य च तणावात् पीडितोऽपि अहं भवतः स्तुतिं करिष्यामि, भवतः आगमनं प्रतीक्षिष्ये यतो भवान् मां रक्षिष्यति। मम हृदयात् कटुतां, द्वेषं, अपवित्रतां, कल्मषं च दूरीकुरु। मां पवित्रं कुरु, मां शुद्धं कुरु। हे प्रभो, मम भावनानां, विचारणानां, मम जीवनस्य प्रत्येकं क्षेत्रस्य च नियन्त्रणं ग्रहणं कुरु। मम कृते आनन्दं शान्तिं च प्रयच्छ। यीशुनाम्ना। आमेन्।