इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।
यतो यद्वत् मानुषद्वारा मृत्युः प्रादुर्भूतस्तद्वत् मानुषद्वारा मृतानां पुनरुत्थितिरपि प्रदुर्भूता।
आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो
मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।
कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।
यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।
अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।
मृत्यो ते कण्टकं कुत्र परलोक जयः क्क ते॥
मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।
स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।
सोऽत्र नास्ति, यथावदत् तथोत्थितवान्; एतत् प्रभोः शयनस्थानं पश्यत।
वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
मज्जने च तेन सार्द्धं श्मशानं प्राप्ताः पुन र्मृतानां मध्यात् तस्योत्थापयितुरीश्वरस्य शक्तेः फलं यो विश्वासस्तद्वारा तस्मिन्नेव मज्जने तेन सार्द्धम् उत्थापिता अभवत।
सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
सोत्र नास्ति स उदस्थात्।
पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।
अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।
पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।
किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,
पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।
यीशु र्मृतवान् पुनरुथितवांश्चेति यदि वयं विश्वासमस्तर्हि यीशुम् आश्रितान् महानिद्राप्राप्तान् लोकानपीश्वरोऽवश्यं तेन सार्द्धम् आनेष्यति।
प्रभु र्यीशु र्येनोत्थापितः स यीशुनास्मानप्युत्थापयिष्यति युष्माभिः सार्द्धं स्वसमीप उपस्थापयिष्यति च, वयम् एतत् जानीमः।
अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।
अनन्तरं तौ द्वौ शिष्यौ स्वं स्वं गृहं परावृत्यागच्छताम्।
ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य
यीशोः शयनस्थानस्य शिरःस्थाने पदतले च द्वयो र्दिशो द्वौ स्वर्गीयदूतावुपविष्टौ समपश्यत्।
तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।
इत्युक्त्वा मुखं परावृत्य यीशुं दण्डायमानम् अपश्यत् किन्तु स यीशुरिति सा ज्ञातुं नाशक्नोत्।
तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं ज्ञात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि।
तदा यीशुस्ताम् अवदत् हे मरियम्। ततः सा परावृत्य प्रत्यवदत् हे रब्बूनी अर्थात् हे गुरो।
तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।
ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्योऽकथयत्।
किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,
वयमपि कुतः प्रतिदण्डं प्राणभीतिम् अङ्गीकुर्म्महे?
अस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिनेऽहं मृत्युं गच्छामि।
इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।
इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।
यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।
अपरं मृतलोकाः कथम् उत्थास्यन्ति? कीदृशं वा शरीरं लब्ध्वा पुनरेष्यन्तीति वाक्यं कश्चित् प्रक्ष्यति।
हे अज्ञ त्वया यद् बीजम् उप्यते तद् यदि न म्रियेत तर्हि न जीवयिष्यते।
यया मूर्त्त्या निर्गन्तव्यं सा त्वया नोप्यते किन्तु शुष्कं बीजमेव; तच्च गोधूमादीनां किमपि बीजं भवितुं शक्नोति।
ईश्वरेणेव यथाभिलाषं तस्मै मूर्त्ति र्दीयते, एकैकस्मै बीजाय स्वा स्वा मूर्त्तिरेव दीयते।
सर्व्वाणि पललानि नैकविधानि सन्ति, मनुष्यपशुपक्षिमत्स्यादीनां भिन्नरूपाणि पललानि सन्ति।
श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
अतएव यदि वयं ख्रीष्टेन सार्द्धम् अहन्यामहि तर्हि पुनरपि तेन सहिता जीविष्याम इत्यत्रास्माकं विश्वासो विद्यते।
यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।
यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।
इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।
तत्कारणाद् ईश्वरोऽपि तं सर्व्वोन्नतं चकार यच्च नाम सर्व्वेषां नाम्नां श्रेष्ठं तदेव तस्मै ददौ,
एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।
फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।
ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासोऽपि वितथः।
तदीयमहापराक्रमस्य महत्वं कीदृग् अनुपमं तत् सर्व्वं युष्मान् ज्ञापयतु।
अस्माकं तातस्येश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,
यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।
मृतगणमध्याच्च तेनोत्थापितस्य पुत्रस्यार्थत आगामिक्रोधाद् अस्माकं निस्तारयितु र्यीशोः स्वर्गाद् आगमनं प्रतीक्षितुम् आरभध्वम् एतत् सर्व्वं ते लोकाः स्वयम् अस्मान् ज्ञापयन्ति।
भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।
अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?
तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।
यत् शरीरम् उप्यते तत् प्राणानां सद्म, यच्च शरीरम् उत्थास्यति तद् आत्मनः सद्म। प्राणसद्मस्वरूपं शरीरं विद्यते, आत्मसद्मस्वरूपमपि शरीरं विद्यते।
एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।
ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि।
तस्मै विवाहाय यीशुस्तस्य शिष्याश्च निमन्त्रिता आसन्।
तदा यिहूदिया व्याहार्षुः, एतस्य मन्दिरस निर्म्माणेन षट्चत्वारिंशद् वत्सरा गताः, त्वं किं दिनत्रयमध्ये तद् उत्थापयिष्यसि?
किन्तु स निजदेहरूपमन्दिरे कथामिमां कथितवान्।
अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।
प्राणानहं त्यक्त्वा पुनः प्राणान् ग्रहीष्यामि, तस्मात् पिता मयि स्नेहं करोति।
कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।
यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।
अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।
मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?
मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः
भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,
श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।
अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।
तावन्ति दिनानि ये मानवा अस्माभिः सार्द्धं तिष्ठन्ति तेषाम् एकेन जनेनास्माभिः सार्द्धं यीशोरुत्थाने साक्षिणा भवितव्यं।
केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।
यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य
इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।
एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।
यतो मृतानामुत्थिति र्यति न भवेत् तर्हि ख्रीष्टोऽप्युत्थापितत्वं न गतः।
ख्रीष्टस्य यद्यनुत्थापितः स्यात् तर्हि युष्माकं विश्वासो वितथः, यूयम् अद्यापि स्वपापेषु मग्नास्तिष्ठथ।
धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;
अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,
"अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।
यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।
यतो जीवन्तो मृताश्चेत्युभयेषां लोकानां प्रभुत्वप्राप्त्यर्थं ख्रीष्टो मृत उत्थितः पुनर्जीवितश्च।
यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।
स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।
इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।
ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
अनन्तकालस्थायिविचाराज्ञा चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम।
अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य
यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति।
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।
अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।
पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।
तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।
यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।
किन्तु स्तिफानः पवित्रेणात्मना पूर्णो भूत्वा गगणं प्रति स्थिरदृष्टिं कृत्वा ईश्वरस्य दक्षिणे दण्डायमानं यीशुञ्च विलोक्य कथितवान्;
पश्य,मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि।
यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
किन्तु यमीश्वरः श्मशानाद् उदस्थापयत् स नाक्षीयत।
अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।
फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।
तेन मृत्युना यद्वत् पापस्य राजत्वम् अभवत् तद्वद् अस्माकं प्रभुयीशुख्रीष्टद्वारानन्तजीवनदायिपुण्येनानुग्रहस्य राजत्वं भवति।
शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।
अपरञ्च स यद् अम्रियत तेनैकदा पापम् उद्दिश्याम्रियत, यच्च जीवति तेनेश्वरम् उद्दिश्य जीवति;
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।
स च ख्रीष्टेन यीशुनास्मान् तेन सार्द्धम् उत्थापितवान् स्वर्ग उपवेशितवांश्च।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।
यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।
अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जनो जयति तस्मा अहम् ईश्वरस्यारामस्थजीवनतरोः फलं भोक्तुं दास्यामि।
तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।
यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।
ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।
सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।
यतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं।
यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।
किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।
तदानीम् आकाशमध्ये मनुजसुतस्य लक्ष्म दर्शिष्यते, ततो निजपराक्रमेण महातेजसा च मेघारूढं मनुजसुतं नभसागच्छन्तं विलोक्य पृथिव्याः सर्व्ववंशीया विलपिष्यन्ति।
तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।
ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।
पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।
इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।
ताः प्रविश्य प्रभो र्देहमप्राप्य
पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।
ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं।
ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
इत्युक्त्वा स हस्तपादान् दर्शयामास।
तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
स तदादाय तेषां साक्षाद् बुभुजे
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
एषु सर्व्वेषु यूयं साक्षिणः।
अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।
तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥
सोत्र नास्ति स उदस्थात्।
पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
तदा तस्य सा कथा तासां मनःसु जाता।
स नूतननियमस्य मध्यस्थोऽभवत् तस्याभिप्रायोऽयं यत् प्रथमनियमलङ्घनरूपपापेभ्यो मृत्युना मुक्तौ जातायाम् आहूतलोका अनन्तकालीयसम्पदः प्रतिज्ञाफलं लभेरन्।
वयञ्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः।
यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।
अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।
यतो यूयं मृतवन्तो युष्माकं जीवितञ्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति।
अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे।
पन र्माम् अवदत् समाप्तं, अहं कः क्षश्च, अहम् आदिरन्तश्च यः पिपासति तस्मा अहं जीवनदायिप्रस्रवणस्य तोयं विनामूल्यं दास्यामि।
यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।
यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति
ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।
ईश्वरेण स्वसमये प्रकाशितव्यम् अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं यावत् त्वया निष्कलङ्कत्वेन निर्द्दोषत्वेन च विधी रक्ष्यतां।
स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज्ञां राजा, प्रभूनां प्रभुः,
अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। आमेन्।
यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।
ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो
यो ऽस्माकम् अद्वितीयस्त्राणकर्त्ता सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा पराक्रमः कर्तृत्वञ्चेदानीम् अनन्तकालं यावद् भूयात्। आमेन्।