अनन्तं सामर्थ्यं यीशोः रक्ते विद्यते, येन जीवनं चामृतं च लभ्यते। तस्य रक्तेन सर्वपापेभ्यः शुद्धिः प्राप्यते, शारीरिकमानसिकात्मिकरोगाणां च निवारणं भवति। न किमपि यीशोः रक्तशक्तेः पुरतः स्थितुं शक्नोति; न कोऽपि यज्ञस्तस्य मुक्तिदायकपरिवर्तकप्रभावं धारयति यथा यीशोः रक्तशक्तिपुष्टिः। क्रुशे तस्य यज्ञेन पापेभ्यो मोक्षः प्राप्यते; यदा तद्रक्तं शुद्ध्यर्थं प्राप्नुमः पापक्षालनार्थं च, तदा मुक्ता भूत्वा स्वर्गीयपितुः सान्निध्यं निर्भयं प्राप्नुमः। काष्ठे पतितं प्रत्येकं रक्तबिन्दुं अस्माकं प्रति यीशोः प्रेमस्य प्रतीकम् अस्ति। अद्यैव एतत्प्रेमकार्यं बहुमूल्यं मत्वा तस्मिन् आनन्दं लभामहे, यतोऽस्य रक्तेन वयं स्पृष्टाः, ईश्वरेच्छानुसारं जीवनं यापयितुं पूर्णतया मुक्ताः स्मः।
रक्तपातेन विना हि पापमोचनं नास्ति। इब्रीयानां ९:२२ स्मारयति यत् व्यवस्थायाः अनुसारं प्रायः सर्वं रक्तेन शुद्ध्यति, रक्तपातेन विना च पापमोचनं न भवति।
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?
तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति।
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
किन्त्वधुना ख्रीष्टे यीशावाश्रयं प्राप्य पुरा दूरवर्त्तिनो यूयं ख्रीष्टस्य शोणितेन निकटवर्त्तिनोऽभवत।
मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।
यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्।
सोऽभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः।
यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
यो ऽस्मासु प्रीतवान् स्वरुधिरेणास्मान् स्वपापेभ्यः प्रक्षालितवान् तस्य पितुरीश्वरस्य याजकान् कृत्वास्मान् राजवर्गे नियुक्तवांश्च तस्मिन् महिमा पराक्रमश्चानन्तकालं यावद् वर्त्ततां। आमेन्।
यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्।
यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
पश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं,
यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।
यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां।
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
अपरञ्च यः कश्चिद् अयोग्यत्वेन प्रभोरिमं पूपम् अश्नाति तस्यानेन भाजनेन पिवति च स प्रभोः कायरुधिरयो र्दण्डदायी भविष्यति।
पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।
यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
अतएव तस्य रक्तपातेन सपुण्यीकृता वयं नितान्तं तेन कोपाद् उद्धारिष्यामहे।
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्।
यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।
तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति।
यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि।
पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां।
एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।
अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।
ततो मयोक्तं हे महेच्छ भवानेव तत् जानाति। तेन कथितं, इमे महाक्लेशमध्याद् आगत्य मेेषशावकस्य रुधिरेण स्वीयपरिच्छदान् प्रक्षालितवन्तः शुक्लीकृतवन्तश्च।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्।
यच्च दण्डाज्ञारूपं ऋणपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।
ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।
कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे।