Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကၖပါလဝေါ မာနဝါ ဓနျား, ယသ္မာတ် တေ ကၖပါံ ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 કૃપાલવો માનવા ધન્યાઃ, યસ્માત્ તે કૃપાં પ્રાપ્સ્યન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kRpAlavo mAnavA dhanyAH, yasmAt te kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:7
37 अन्तरसन्दर्भाः  

अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।


अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।


अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्


अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।


अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,


यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।


अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।


यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।


तेषां पापिनां मध्येऽहं प्रथम आसं किन्तु ये मानवा अनन्तजीवनप्राप्त्यर्थं तस्मिन् विश्वसिष्यन्ति तेषां दृष्टान्ते मयि प्रथमे यीशुना ख्रीष्टेन स्वकीया कृत्स्ना चिरसहिष्णुता यत् प्रकाश्यते तदर्थमेवाहम् अनुकम्पां प्राप्तवान्।


अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।


यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।


यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।


किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।


पूर्व्वं यूयं तस्य प्रजा नाभवत किन्त्विदानीम् ईश्वरस्य प्रजा आध्वे। पूर्व्वम् अननुकम्पिता अभवत किन्त्विदानीम् अनुकम्पिता आध्वे।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्