Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 25:6

सत्यवेदः। Sanskrit NT in Devanagari

दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।

एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।

अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।

ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।

ततस्तेष्वत्रागतेषु परस्मिन् दिवसेऽहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज्ञापयम्।

यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।

ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।

फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।

यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्