Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रेरिता 25:5

सत्यवेदः। Sanskrit NT in Devanagari

ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।

तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्।

एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।

ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।

किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।

यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।

दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्