तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
मत्ती 9:4 - सत्यवेदः। Sanskrit NT in Devanagari ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুৰুথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তেষাম্ এতাদৃশীং চিন্তাং ৱিজ্ঞায কথিতৱান্, যূযং মনঃসু কৃত এতাদৃশীং কুচিন্তাং কুরুথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တေၐာမ် ဧတာဒၖၑီံ စိန္တာံ ဝိဇ္ဉာယ ကထိတဝါန်, ယူယံ မနးသု ကၖတ ဧတာဒၖၑီံ ကုစိန္တာံ ကုရုထ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tESAm EtAdRzIM cintAM vijnjAya kathitavAn, yUyaM manaHsu kRta EtAdRzIM kucintAM kurutha? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તેષામ્ એતાદૃશીં ચિન્તાં વિજ્ઞાય કથિતવાન્, યૂયં મનઃસુ કૃત એતાદૃશીં કુચિન્તાં કુરુથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa teSAm etAdRzIM cintAM vijJAya kathitavAn, yUyaM manaHsu kRta etAdRzIM kucintAM kurutha? |
तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
किन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।
इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?
तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।
तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।
तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।
निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?
भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।
पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।
किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति?
किन्तु युष्माकं मध्ये केचन अविश्वासिनः सन्ति के के न विश्वसन्ति को वा तं परकरेषु समर्पयिष्यति तान् यीशुराप्रथमाद् वेत्ति।
ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।
तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।