Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



तीतुस 3:9

सत्यवेदः। Sanskrit NT in Devanagari

मूढेभ्यः प्रश्नवंशावलिविवादेभ्यो व्यवस्थाया वितण्डाभ्यश्च निवर्त्तस्व यतस्ता निष्फला अनर्थकाश्च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।

देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।

यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च।

त्वमेतानि स्मारयन् ते यथा निष्फलं श्रोतृणां भ्रंशजनकं वाग्युद्धं न कुर्य्यस्तथा प्रभोः समक्षं दृढं विनीयादिश।

किन्त्वपवित्रा अनर्थककथा दूरीकुरु यतस्तदालम्बिन उत्तरोत्तरम् अधर्म्मे वर्द्धिष्यन्ते,

अपरं त्वम् अनर्थकान् अज्ञानांश्च प्रश्नान् वाग्युद्धोत्पादकान् ज्ञात्वा दूरीकुरु।

र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।

युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्