Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



रोमियों 2:25

सत्यवेदः। Sanskrit NT in Devanagari

यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।

व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।

यस्त्वं व्यवस्थां श्लाघसे स त्वं किं व्यवस्थाम् अवमत्य नेश्वरं सम्मन्यसे?

यतो व्यवस्थाशास्त्रादिष्टधर्म्मकर्म्माचारी पुमान् अत्वक्छेदी सन्नपि किं त्वक्छेदिनां मध्ये न गणयिष्यते?

किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?

तस्माद् यो बाह्ये यिहूदी स यिहूदी नहि तथाङ्गस्य यस्त्वक्छेदः स त्वक्छेदो नहि;

त्वक्छेदः सारो नहि तद्वदत्वक्छेदोऽपि सारो नहि किन्त्वीश्वरस्याज्ञानां पालनमेव।

ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।

ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्