Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



रोमियों 16:3

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

एष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।

अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं ज्ञापयध्वं।

ताभ्याम् उपकाराप्तिः केवलं मया स्वीकर्त्तव्येति नहि भिन्नदेशीयैः सर्व्वधर्म्मसमाजैरपि।

अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।

अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।

ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।

मृतगणाद् यीशु र्येनोत्थापितस्तस्यात्मा यदि युष्मन्मध्ये वसति तर्हि मृतगणात् ख्रीष्टस्य स उत्थापयिता युष्मन्मध्यवासिना स्वकीयात्मना युष्माकं मृतदेहानपि पुन र्जीवयिष्यति।

जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।

अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत।

युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत।

इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति।

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः,

अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।

केवलमेत ईश्वरराज्ये मम सान्त्वनाजनकाः सहकारिणोऽभवन्।

त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्