Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



रोमियों 12:3

सत्यवेदः। Sanskrit NT in Devanagari

कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

47 अन्तरसन्दर्भाः  

ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।

ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।

अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति

भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।

हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;

अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।

यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।

ईश्वरस्य प्रसादात् मया यत् पदं लब्धं तस्मात् ज्ञानिना गृहकारिणेव मया भित्तिमूलं स्थापितं तदुपरि चान्येन निचीयते। किन्तु येन यन्निचीयते तत् तेन विविच्यतां।

एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।

वयम् अपरिमितेन न श्लाघिष्यामहे किन्त्वीश्वरेण स्वरज्ज्वा युष्मद्देशगामि यत् परिमाणम् अस्मदर्थं निरूपितं तेनैव श्लाघिष्यामहे।

मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।

अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।

यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।

युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये।

अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते।

तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।

यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।

एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।

स च युष्मान् अपराधैः शारीरिकात्वक्छेदेन च मृतान् दृष्ट्वा तेन सार्द्धं जीवितवान् युष्माकं सर्व्वान् अपराधान् क्षमितवान्,

अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।

तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।

तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः

स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,

विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्

किन्तु सुशिक्षाकारिण्यः सत्य ईश्वरस्य वाक्यं यत् न निन्द्येत तदर्थं युवतीः सुशीलताम् अर्थतः पतिस्नेहम् अपत्यस्नेहं

तद्वद् यूनोऽपि विनीतये प्रबोधय।

तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥

अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।

यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।

सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।

हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।

यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,

समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्