Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



रोमियों 10:6

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।

निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।

यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति।

यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।

यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,

इब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।

यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।

स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्