Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



रोमियों 1:8

सत्यवेदः। Sanskrit NT in Devanagari

प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

25 अन्तरसन्दर्भाः  

अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।

अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।

आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।

तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।

तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।

युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।

अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।

ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।

य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।

प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि

युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि।

ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।

सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा

वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः,

यस्मिन् समये यूयम् अस्माकं मुखाद् ईश्वरेण प्रतिश्रुतं वाक्यम् अलभध्वं तस्मिन् समये तत् मानुषाणां वाक्यं न मत्त्वेश्वरस्य वाक्यं मत्त्वा गृहीतवन्त इति कारणाद् वयं निरन्तरम् ईश्वरं धन्यं वदामः, यतस्तद् ईश्वरस्य वाक्यम् इति सत्यं विश्वासिनां युष्माकं मध्ये तस्य गुणः प्रकाशते च।

हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।

अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।

प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।

यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्