Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 6:12

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

31 अन्तरसन्दर्भाः  

हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।

अपरं तस्य क्लेशसमयस्याव्यवहितपरत्र सूर्य्यस्य तेजो लोप्स्यते, चन्द्रमा ज्योस्नां न करिष्यति, नभसो नक्षत्राणि पतिष्यन्ति, गगणीया ग्रहाश्च विचलिष्यन्ति।

अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,

तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,

यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।

तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।

अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्।

तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।

तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।

अनन्तरं चतुर्थो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं सूर्य्ये ऽस्रावयत् तस्मै च वह्निना मानवान् दग्धुं सामर्थ्यम् अदायि।

अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।

पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्