Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 5:11

सत्यवेदः। Sanskrit NT in Devanagari

अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः

आदमतः सप्तमः पुरुषो यो हनोकः स तानुद्दिश्य भविष्यद्वाक्यमिदं कथितवान्, यथा, पश्य स्वकीयपुण्यानाम् अयुतै र्वेष्टितः प्रभुः।

ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।

तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।

अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।

अपरं ते चत्वारः प्राणिनः कथितवन्तस्तथास्तु, ततश्चतुर्विंशतिप्राचीना अपि प्रणिपत्य तम् अनन्तकालजीविनं प्राणमन्।

अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।

पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।

ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,

अपरम् अश्वारोहिसैन्यानां संख्या मयाश्रावि, ते विंशतिकोटय आसन्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्