Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 3:1

सत्यवेदः। Sanskrit NT in Devanagari

अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

30 अन्तरसन्दर्भाः  

यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।

किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।

अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।

नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।

इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।

ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।

स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।

पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम्

तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।

स च युष्मान् अपराधैः शारीरिकात्वक्छेदेन च मृतान् दृष्ट्वा तेन सार्द्धं जीवितवान् युष्माकं सर्व्वान् अपराधान् क्षमितवान्,

किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति।

अतएवात्महीनो देहो यथा मृतोऽस्ति तथैव कर्म्महीनः प्रत्ययोऽपि मृतोऽस्ति।

विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।

युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,

तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।

तस्य दक्षिणहस्ते सप्त तारा विद्यन्ते वक्त्राच्च तीक्ष्णो द्विधारः खङ्गो निर्गच्छति मुखमण्डलञ्च स्वतेजसा देदीप्यमानस्य सूर्य्यस्य सदृशं।

मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।

योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति

तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।

तव क्रियाः प्रेम विश्वासः परिचर्य्या सहिष्णुता च मम गोचराः, तव प्रथमक्रियाभ्यः शेषक्रियाः श्रेष्ठास्तदपि जानामि।

तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्,

तव क्रियाः क्लेशो दैन्यञ्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।

तव क्रिया मम गोचराः त्वं शीतो नासि तप्तो ऽपि नासीति जानामि।

प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।

तव क्रिया मम गोचराः पश्य तव समीपे ऽहं मुक्तं द्वारं स्थापितवान् तत् केनापि रोद्धुं न शक्यते यतस्तवाल्पं बलमास्ते तथापि त्वं मम वाक्यं पालितवान् मम नाम्नो ऽस्वीकारं न कृतवांश्च।

तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।

अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्