Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 20:8

सत्यवेदः। Sanskrit NT in Devanagari

ततः स पृथिव्याश्चतुर्दिक्षु स्थितान् सर्व्वजातीयान् विशेषतो जूजाख्यान् माजूजाख्यांश्च सामुद्रसिकतावद् बहुसंख्यकान् जनान् भ्रमयित्वा युद्धार्थं संग्रहीतुं निर्गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

ततो हेतो र्मृतकल्पाद् एकस्मात् जनाद् आकाशीयनक्षत्राणीव गणनातीताः समुद्रतीरस्थसिकता इव चासंख्या लोका उत्पेदिरे।

अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।

त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।

तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।

अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।

अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्