Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 20:11

सत्यवेदः। Sanskrit NT in Devanagari

ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

27 अन्तरसन्दर्भाः  

तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।

नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।

यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,

तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?

किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।

यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।

द्वीपाश्च पलायिता गिरयश्चान्तहिताः।

अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।

अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।

अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।

अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।

तेनाहं तत्क्षणाद् आत्माविष्टो भूत्वा ऽपश्यं स्वर्गे सिंहासनमेकं स्थापितं तत्र सिंहासने एको जन उपविष्टो ऽस्ति।

आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्