Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 17:10

सत्यवेदः। Sanskrit NT in Devanagari

तेषां पञ्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

6 अन्तरसन्दर्भाः  

ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।

स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति।

मयि निरीक्षमाणे तस्य शिरसाम् एकम् अन्तकाघातेन छेदितमिवादृश्यत, किन्तु तस्यान्तकक्षतस्य प्रतीकारो ऽक्रियत ततः कृत्स्नो नरलोकस्तं पशुमधि चमत्कारं गतः,

यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च।

त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्