Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



प्रकाशितवाक्य 14:15

सत्यवेदः। Sanskrit NT in Devanagari

ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

20 अन्तरसन्दर्भाः  

अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।

वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः।

अतो यूयं निजपूर्व्वपुरुषाणां परिमाणपात्रं परिपूरयत।

किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।

अपरं भिन्नजातीयलोकानां परित्राणार्थं तेषां मध्ये सुसंवादघोषणाद् अस्मान् प्रतिषेधन्ति चेत्थं स्वीयपापानां परिमाणम् उत्तरोत्तरं पूरयन्ति, किन्तु तेषाम् अन्तकारी क्रोधस्तान् उपक्रमते।

अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति।

तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।

ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं।

अनन्तरम् अपर एको दूतः स्वर्गस्थमन्दिरात् निर्गतः सो ऽपि तीक्ष्णं दात्रं धारयति।

अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।

ये च सप्त दूताः सप्त दण्डान् धारयन्ति ते तस्मात् मन्दिरात् निरगच्छन्। तेषां परिच्छदा निर्म्मलशृभ्रवर्णवस्त्रनिर्म्मिता वक्षांसि च सुवर्णशृङ्खलै र्वेष्टितान्यासन्।

ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।

त उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्