Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



फिलिप्पियों 4:8

सत्यवेदः। Sanskrit NT in Devanagari

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

67 अन्तरसन्दर्भाः  

हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।

यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।

ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।

यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।

तदा यिहूदीयानां मन्त्रणां क्रियाञ्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो

यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।

ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।

तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको

अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,

अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।

शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,

एतै र्यो जनः ख्रीष्टं सेवते, स एवेश्वरस्य तुष्टिकरो मनुष्यैश्च सुख्यातः।

किन्तु यो जन आन्तरिको यिहूदी स एव यिहूदी अपरञ्च केवललिखितया व्यवस्थया न किन्तु मानसिको यस्त्वक्छेदो यस्य च प्रशंसा मनुष्येभ्यो न भूत्वा ईश्वराद् भवति स एव त्वक्छेदः।

अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।

यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वयञ्च निष्प्रमाणा इव भवामस्तदर्थं।

मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।

तेन सह योऽपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः।

यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः।

दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।

वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य

हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।

यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।

एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।

सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।

अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।

स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं।

अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।

सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।

वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।

किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,

यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।

विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्

त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं

अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।

तेन विश्वासेन प्राञ्चो लोकाः प्रामाण्यं प्राप्तवन्तः।

अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।

क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।

यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।

देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा

हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।

तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।

हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्