Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



फिलिप्पियों 4:4

सत्यवेदः। Sanskrit NT in Devanagari

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

शोकयुक्ताश्च वयं सदानन्दामः, दरिद्रा वयं बहून् धनिनः कुर्म्मः, अकिञ्चनाश्च वयं सर्व्वं धारयामः।

युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।

तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।

हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।

किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्