Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



फिलिप्पियों 1:27

सत्यवेदः। Sanskrit NT in Devanagari

यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

53 अन्तरसन्दर्भाः  

तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।

अल्पदिनात् परं फीलिक्षोऽधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्।

अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।

यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।

अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति

अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,

तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।

भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।

युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।

अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।

हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।

यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।

यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,

सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।

यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।

प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि

अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण

युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।

अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।

स्वयम् अहमपि तूर्णं युष्मत्समीपं गमिष्यामीत्याशां प्रभुना कुर्व्वे।

यतोऽनेके विपथे चरन्ति ते च ख्रीष्टस्य क्रुशस्य शत्रव इति पुरा मया पुनः पुनः कथितम् अधुनापि रुदता मया कथ्यते।

किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे।

हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।

प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,

वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।

किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।

हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।

तथा सच्चिदानन्देश्वरस्य यो विभवयुक्तः सुसंवादो मयि समर्पितस्तदनुयायिहितोपदेशस्य विपरीतं यत् किञ्चिद् भवति तद्विरुद्धा सा व्यवस्थेति तद्ग्राहिणा ज्ञातव्यं।

विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।

अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्।

किमपि नापहरेयुः किन्तु पूर्णां सुविश्वस्ततां प्रकाशयेयुरिति तान् आदिश। यत एवम्प्रकारेणास्मकं त्रातुरीश्वरस्य शिक्षा सर्व्वविषये तै र्भूषितव्या।

प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।

शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।

अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते

अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं।

हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्