Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 9:23

सत्यवेदः। Sanskrit NT in Devanagari

अपरं यीशुस्तस्याध्यक्षस्य गेहं गत्वा वादकप्रभृतीन् बहून् लोकान् शब्दायमानान् विलोक्य तान् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।

ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।

ततः पौलोऽवरुह्य तस्य गात्रे पतित्वा तं क्रोडे निधाय कथितवान्, यूयं व्याकुला मा भूत नायं प्राणै र्वियुक्तः।

तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।

वल्लकीवादिनां शब्दं पुन र्न श्रोष्यते त्वयि। गाथाकानाञ्च शब्दो वा वंशीतूर्य्यादिवादिनां। शिल्पकर्म्मकरः को ऽपि पुन र्न द्रक्ष्यते त्वयि। पेषणीप्रस्तरध्वानः पुन र्न श्रोष्यते त्वयि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्