Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 6:23

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

22 अन्तरसन्दर्भाः  

स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?

लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।

नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।

देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।

ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।

ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्

प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।

यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,

पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।

किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्