Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 27:22

सत्यवेदः। Sanskrit NT in Devanagari

तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति।

ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?

ततोऽधिपतिस्तान् पृष्टवान्, एतयोः कमहं मोचयिष्यामि? युष्माकं केच्छा? ते प्रोचु र्बरब्बां।

ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।

तदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगयाञ्चक्रिरे, किन्तु न प्राप्ताः।

तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।

प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।

अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्