Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 22:11

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

25 अन्तरसन्दर्भाः  

अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।

तदा ते दासेया राजमार्गं गत्वा भद्रान् अभद्रान् वा यावतो जनान् ददृशुः, तावतएव संगृह्यानयन्; ततोऽभ्यागतमनुजै र्विवाहगृहम् अपूर्य्यत।

तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।

यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।

अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।

तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।

यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।

धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।

अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।

परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥

तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।

त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्