Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 19:9

सत्यवेदः। Sanskrit NT in Devanagari

अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

तदा तस्य शिष्यास्तं बभाषिरे, यदि स्वजायया साकं पुंस एतादृक् सम्बन्धो जायते, तर्हि विवहनमेव न भद्रं।

ततः स कथितवान्, युष्माकं मनसां काठिन्याद् युष्मान् स्वां स्वां जायां त्यक्तुम् अन्वमन्यत किन्तु प्रथमाद् एषो विधिर्नासीत्।

किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।

यः कश्चित् स्वीयां भार्य्यां विहाय स्त्रियमन्यां विवहति स परदारान् गच्छति, यश्च ता त्यक्तां नारीं विवहति सोपि परदारान गच्छति।

अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।

यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये।

भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्